________________
३२
न्यायमञ्जर्याम्
न्यत्र प्रवृत्तिपाप्ती इति सर्व कैतवम्, न च दृश्यसंस्पर्शशून्यात्मनां विकल्पानां दर्शनच्छाया का चन सम्भवतीदन्ताप्राहित्व स्पष्टत्वाद्यपि वस्तुस्पर्शरहितमकिचित्करमप्रमाणत्वानपायात् ।
अप्रमाणपरिच्छिन्नः प्रतिबन्धश्च तत्वतः ।
न परिच्छिन्न एवेति ततो मिथ्या ऽनुमेयधीः ॥ अथाभिमतमेवेदं बुद्ध्यारूढत्ववर्णनात् ।
हन्त तात्विक संबन्ध साधनव्यसनेन किम् ॥
यथा व सामान्यविषये प्रत्यक्षाभ्युपगममन्तरेण संबन्धग्रहणमघटमानमिति विसंष्ठलमनुमानम्, एवमवगतसंबन्धस्य द्वितीयलिङ्गदर्शनमपि दुरुपपामिति ततोऽपि संलवापलापिनामनुमानमुत्सीदेत् । न साधारणांशस्य लिङ्गत्वमुपपद्यते । विना न चानुमानेन सामान्यमवगम्यते ॥ सैवावस्था तत्रापि तदेवान्योन्यसंश्रयम् । स एव च विकल्पानां सामर्थ्यशमनक्रमः ॥ अतः संबन्धविज्ञानलिङ्गग्रहणपूर्वकम् । अनुमानमनिन्हुत्य कथं संप्लवनिह्नवः ॥
अपि च विषयद्वैविध्यसिद्धावपि प्रत्यक्षानुमाने एव परस्परमपि संप्लवेयाताम् । यतः
प्रत्यक्षत्वं परोक्षो ऽपि प्रत्यक्षो ऽपि परोक्षाताम् । देशकालादिभेदेन विषयः प्रतिपद्यते ॥
क्षणभङ्गं निषेत्स्यामः सन्ताना यश्च कल्पितः । दर्शितप्राप्तिसिद्ध्यादौ संप्लवे ऽपि स तादृशः ।।
यदपि जात्यादिविषयनिषेधनमनोरथैः संप्लवपराकरणमध्यवसितं तत्र जात्यादिसमर्थनमेवोत्तरीकरिष्यते ।
araणगणैः कालुष्यमपनीयते ।
तद्वानवयवी जातिरिति वार्त्तकभद्रिका ॥
यदपि विरोधवैफल्याभ्यां न संप्लव इत्युक्तं तत्र वैफल्यमनधिगतार्थगन्तृत्वविशेषणादिवारणेनैव प्रतिसमाहितम्, विरोधोऽपि नास्ति पूर्वज्ञानोपमर्देन नेदं रजतमितिवदुत्तर विज्ञानानुत्पादात्, अनेकधर्मविसरविशेषितवपुषि धर्मिणि कदाचित्केन चित्कश्चिनिश्चीयते धर्मविशेष इति को विरोधार्थः ।
यदपि प्रत्यक्षस्य शब्द लिङ्गयोश्च समानविषयत्वे सति सदृशप्रतीतिजनक - त्वमाशङ्कितं तत्र केचिदाचक्षते विषयसाम्ये ऽप्युपायभेदात्प्रतीतिभेदो भवत्येव दूराविदूरदेशव्यवस्थित पदार्थप्रतीतिवत् ।