________________
प्रमाणप्रकरणम्
सामान्यात्मकसम्बन्धिग्रहणं चानुमानतः । तस्मादेव यदीष्येत व्यक्तमन्योन्यसंश्रयम् ॥ अनुमानान्तराधीना सम्बन्धिग्रहपूर्विका । सम्बन्धाधिगतिर्न स्यान्मन्वन्तरशतैरपि ।। तेन दूरे ऽपि सम्बन्धग्राहकं लिङ्गलिङ्गिनोः ।
प्रत्यक्षमुपगन्तव्यं तथा सति च संप्लवः । तन्नैतत्स्यादविदितसौगतकृतान्तानामेतच्चोद्यम , ते हि
विकल्पविषये वृत्तिमाहुः शब्दानुमानयोः ।
तेभ्यः सम्बन्धसिद्धौ च नानवस्था न संप्लवः ।। तथा हि-दर्शनसमनन्तरोत्पत्त्यवाप्तदर्शनच्छायाऽनुरज्यमानवपुषो विकल्पाः प्रत्यक्षायन्ते तदुल्लिखितकाल्पनिकतदितरपरावृत्तिस्वभावसामान्याकारपविष्टो ऽयमनुमानव्यवहारः, पारम्पर्येण मणिपभामणिबुद्धिवत्त तन्मूल इति तत्प्राप्तये ऽवकल्पते न पुन: प्रत्यक्षकसमधिगम्यं वस्तु स्पृशति इति कुतः संप्लवः कुती वाऽनवस्था ।
तदेतद्वञ्चनामात्रम् -- यो हि(१) तादात्म्यतदुत्पत्तिस्वभावः प्रतिबन्ध इष्यते स किं वस्तुधर्मो विकल्पारोपिताकारधम्मों वा तत्र नायमारोपितधर्मों भवितुम. हति, वस्तु वस्तुना जन्यते वस्तु च वस्तुस्वभावं भवेत् , तस्माद्वस्तुधर्मः प्रतिबन्धः, विकल्पैश्च वस्तु न स्पृश्यते तत्पतिबन्धश्च निश्चीयते इति चित्रम्, इदं च स्वभाषितं वस्तुनोः पतिबन्धस्तादात्म्यादि गम्यगमकत्वं च विकल्पारोपितयोरपोहयोस्तदेवमन्यत्र प्रतिबन्धो ऽन्यत्र तद्ग्रहणोपायो ऽन्यत्र पतीतिर.
(१) यो होति । बौद्धा हि तादात्म्यतदुत्पत्तिभ्यामेव व्याप्तिरिति मन्यन्ते त. दुकं वाचस्पतिमिश्रपादैस्तात्पर्यटीकायाम् 'केचिदविनामावं तादात्म्यतदुत्पत्तिनि. बन्धनमनुमानाङ्गमाहुः द्विविधो यर्थः प्रत्यक्षश्च परोक्षश्च तत्र यो बुद्धौ साक्षादात्मीयं रूपं निवेशयति स प्रत्यक्षः स हि स्वविषयाया बुद्धर्जनकः इति तमन्तरेण बद्धिरात्मान मनासादयन्ती तस्य सत्तां निश्चाययतीति युक्तम् परोक्षस्तु बुद्धौ साक्षात्स्वरूपोपधान. रहितोऽयुक्तप्रतिपत्तिरेव न चान्यदर्शनेऽन्यकल्पना युक्ता अतिप्रसङ्गात् नान्तरीयतया तु अन्योऽप्यन्यं गमयेत् स हि प्रतिबद्धस्वभावो यथाविधः सिद्धस्तथाविधसन्निधानं सूचयति स च प्रतिबन्धो न दर्शनमात्रावसेयस्तथासति स श्यामो मैत्रतनयत्वात परि. दृश्यमानमैत्रतनयस्तोमवदित्यनुमान स्यात इहापि स्तो दर्शनादर्शने तस्मात्तादात्म्य. तदुत्पत्तिनिबन्धन एव प्रतिबन्धः ( व्याप्तिः ) यदाह
कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात् ॥ हति ।