________________
२०
न्यायमञ्जर्याम् द्वितीयाकारानवभासात्कुतो ऽर्थदृष्टिः, यदि च गृहीतं शानमर्थ प्रकाशयेन्न द्वयीं गतिमतिवर्तेत तद्धि ज्ञानं ज्ञानान्तरपाद्यं वा भवेत्स्वप्रकाशं वा, ज्ञानान्तरप्राह्यत्वे त्वनवस्था मूलक्षतिकरी चेयमित्यन्धमूकं जगत्स्यादुपलम्भप्रत्यक्षतापूर्वकार्थप्रत्यक्षवादिनः, नापि स्वप्रकाशं ज्ञानं ज्ञेयत्वान्नीलपीतादिवत् , विस्तर. तस्तु स्वप्रकाशं विज्ञानं विज्ञानवादिनिराकरणे निराकरिष्यामः,
न च ज्ञानस्याप्रत्यक्षतायां तदुत्पादानुत्पादयोरविशेषादज्ञत्वं सर्वज्ञत्वं वा परिशङ्कनीयम् , विज्ञानोत्पादमात्रेण ज्ञातुओतृत्वसिद्धः, विषयप्रकाशस्वभाव. मेव ज्ञानमुत्पद्यते इति कथमुत्पन्नमनुत्पन्नान्न विशिष्यते, यथा च नीलादिविष. यज्ञानोत्पत्त्या ऽस्य ज्ञातृत्वं तथा सुखादिविषयज्ञानोत्पत्त्या भोक्तृत्वमिति तत्रापि नातिप्रसङ्गः, तस्माद्विषयविज्ञानकाले तद्विज्ञानग्रहणान्न तत्कर्मत्वकृतं विषयप्रत्यक्षत्वमवभासते तदप्रतिभासे च न परोक्षव्यवच्छेदो न च तृतीयप्र. कारासत्वसूचनमिति कथं प्रत्यक्षं विषयद्वित्वसिद्धौ प्रमाणम्
यच्चानुमानमप्युक्तं विषयद्वयसिद्धये । तत्प्रत्यक्षपरिच्छिन्नतद्विरोधनिबन्धनम् ।। विरोधबोधसामर्थ्य प्रत्यक्षस्य च दूषितम् । तदग्रहे च तन्मूलमनुमानं न सिध्यति ।। एवं च विषयद्वित्वसाधनानुपपत्तितः ।
तत्कृतस्त्यज्यतामेष प्रमाणद्वित्वदोहदः ।। अथ वा सत्यपि विषयद्वैविध्ये सामग्रीभेदात्फलभेदाच प्रमाणभेदो भवन्क थमपाक्रियते
अन्ये एव हि सामग्रीफले प्रत्यक्षालिङ्गयोः ।
अन्ये एव च सामग्रीफले शब्दोपमानयोः ।। इति वक्ष्यामः ।
तेन तद्भेदादपि प्रमाणभेदसिद्धेने द्वे एव प्रमाणे, एतेन त्रीणि प्रमाणनीति सांख्यव्याख्याता ऽपि तत्संख्या प्रत्याख्याता, सामग्रीफलभेदेनोपमानस्य चतु. र्थप्रमाणस्य प्रतिपादयिष्यमाणत्वादिति । ..
बौदनिराकृतप्रमाणसंप्लवसमर्थनम्यत्पुनरेकस्मिन्विषये ऽनेकप्रमाणप्रसरंः निरस्यता सौगतेन संप्लवपराकरणमकारि तदपि मतिमोहविलसितम् , असति संप्लवे ऽनुमानप्रामाण्यप्रतिष्ठापनानुपपत्तः,
न थविज्ञातसम्बन्धं लिङ्गं गमकमिष्यते। सम्बन्धधीश्च सम्बन्धिद्वयावगतिपूर्विका ॥