________________
प्रमाणप्रकरणम्
अपि च--
अन्यदेवेन्द्रियग्राह्यमन्यः शब्दस्य गोचरः ।
शब्दात्पत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्ष्यते ॥ आह च
अन्यथैवाग्निसम्बन्धादाहं दग्धो ऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते ॥ [वाक्यात तस्मादुक्तेन वर्त्मना विषयद्वैविध्यनिश्चयान्न तृतीयं प्रमाणमस्ति, न च संप्लव इति,
बौद्धामिमतप्रमाणद्वैविध्यनिराकरणम् । अत्राभिधीयते
यत्तावदिदमाख्यायि राश्यन्तरनिराकृतौ । प्रत्यक्षस्यैव सामर्थ्यमित्येतन्नोपपद्यते । पूवोपरानुसन्धानसामथ्यरहितात्मना । भारः कथमयं वोदमविकल्पेन पार्यते ॥ विकल्पाः पुनरुत्प्रेक्षामात्रनिष्ठितशक्तयः ।
तेभ्यो वस्तुव्यवस्थायाः का कथा भवतां मते ॥ अथ वा भवतु नाम नीलादावुक्तेन प्रकारेण राश्यन्तरनिराकरणं प्रत्यक्ष. परोक्षनिर्णये तु नैष प्रकारो योजयितुं शक्यते, विषये हि प्रवृत्तं प्रत्यक्षं विषय. स्वरूपमेव परिच्छिनत्ति न पुनस्तस्य प्रत्यक्षतामपि, नीलमिदमिति हि सम्वे. धते न पुनः प्रत्यक्षमिदमिति, तथा हि-किमिदं विषयस्य प्रत्यक्षत्वं नाम किमक्षविषयत्वम् उताक्षजज्ञानविषयत्वमिति, तत्राक्षविषयत्वं तावदन्वयव्यतिरेकसमधिगम्यमेव न प्रत्यक्षगम्यम् , तथा ऽऽह भट्टः
न हि श्रावणता नाम प्रत्यक्षेणावगम्यते ।
नान्वयव्यतिरेकाभ्यां ज्ञायते बधिरादिषु ।। (१)इति । अक्षजज्ञानकर्मत्वमपि प्रत्यक्षत्वं तदानीं परिच्छेत्तुमशक्यमेव विषयप्रतिभासकाले तत्प्रतिभासस्याप्रतिमासात् , तद्ग्रहणमन्तरेण च तत्कर्मताग्रहणास. म्भवात, कथं पुनर्विषयग्रहणकाले तज्ज्ञानस्यानवमासः, नैव युगपदाकारद्वितयं प्रतिभासते, इदं ज्ञानमयं चार्थ इति भेदानुपग्रहात्, एकश्चायमाकारः प्रतिभासमानो ग्राह्यस्यैव भवितुमर्हति न ग्राहकस्येति वक्ष्यते। .
ननु च नागृहीतं ज्ञानमर्थप्रकाशनकुशलं भवतीत्याहुरप्रत्यक्षोपलम्भस्य नाथदृष्टिः प्रसिध्यताति, प्रत्यक्षोपलम्भस्य नार्थदृष्टिरुपलम्भ एव प्रत्यक्ष इति
(१) लोकवातिके अनुमानपरिच्छेदे ६० ।