________________
२४
न्यायमअर्याम् सीति, भोः साधो नात्र पृथग्रहणमुपयुज्यते तबुद्धयनवभासमात्रेणैव तद्विरोध. सिद्धेः, विरुद्धं हि तदुच्यते यत्तस्मिन् गृह्यमाणे न गृह्यते तदिदमग्रहणमेव वि. रोधावहमिति न पृथग्ग्रहणमन्वेषणीयम् , एवमितेरतरपरिहारव्यवस्थितानामथानां न तृतीयो राशिरस्तीति सर्वथा सिद्धं विषयद्वैविध्यम् , एवमेव सद. सन्नित्यानित्यक्रमयोगपद्यादिषु प्रकारान्तरपराकरणमवगन्तव्यम् , तत्र प्रत्यक्ष स्वलक्षणात्ममिनिषय प्रत्यक्ष प्रवर्त्तते, परोक्षे तु सामान्याकारे ऽनुमानमिति ।
प्रमाणद्वयसिद्धे च विषयद्वयवेदने ।
वद कस्यानुरोधेन तृतीयं मानमिष्यताम् ।। न चास्मिन्नेव परोक्षे सामान्यात्मनि विषये ऽनुमानमिव शब्दाद्यपि प्रमाणान्तरं प्रवर्तते इति वक्तं युक्तम्, एकत्र विषये विरोधविफलत्वाभ्यामनेकप्रमाणप्रवृत्त्यनुपपत्तेः, पूर्वप्रमाणावगतरूपयोगितया तस्मिन्वस्तुनि पुनः परिच्छिद्यमाने प्रमाणमुत्तरमफलम् , एवं ह्याहुः 'अधिगतमर्थमधिगमयता प्रमाणेन पि. ष्टं पिष्टं स्यादिति अन्यरूपतया तु तद्ग्रहणमुत्तरप्रमाणेन दुःशक्यम् आदिप्रमाणविरुद्धत्वात्' इति, अत एव न संप्लवमभ्युपगच्छन्ति नीतिविदः, एकस्मिन्विषये ऽनेकपमाणपवृत्तिः संप्लवः स च तथाविधविषयनिरासादेव निरस्त:, न च प. त्यक्षानुमाने अपि परस्परं संप्लवेते स्वलक्षणे ऽनुमानस्य सामान्ये च पत्यक्षस्य प्रवृत्त्यभावात् ।
संबन्धग्रहणापेक्षमनुमानं स्वलक्षणे । सजातीयविजातीयव्यावृत्त वर्ततां कथम् ।। पत्यक्षमपि सद्वस्तुसंस्पर्शनियतव्रतम् । विकल्पारोपिताकारसामान्यग्राहकं कथम् ।। यच्च शब्दोपमानादि प्रमाणान्तरमिष्यते । तदेवं सति कुत्रांशे पतिष्ठामधिगच्छतु ।। वस्तु स्वलक्षणं तावत्पत्यक्षेणव मुद्रितम् । ततोऽन्यदनुमानेन संबन्धापेक्षवृत्तिना ॥ नानापमाणगम्यश्च विषयो नास्ति वास्तवः ।
तद्वानवयवी जातिरिति वातकभद्रिका ।। यदि च प्रत्यक्षविषये शब्दानुमानयोरपि वृत्तिरिष्यते तर्हि प्रत्यक्षसम्वि. सहशीमेव ते अपि बुद्धिं विद्ध्यातां न चैवमस्ति, तदाहुः
समानविषयत्वे च जायते सघशी मतिः । न चाध्यक्षधिया साम्यमेति शब्दानुमानधीः ।। तेजो ऽन्यदेव नक्षत्रशशाङ्कशकलादिषु । उद्घाटितजगत्कोशमन्यदेव रवेमहः ।।