________________
प्रमाणप्रकरणम्
२७
बौद्धाभिमतप्रमाणद्वैविध्यनिरूपणम् - नन्वेतद्भिक्षवो न क्षमन्ते
ते हि प्रमेयद्वैविध्यात्प्रमाणं द्विविधं जगुः ।
नान्यः प्रमाणभेदस्य हेतुर्विषयभेदतः ॥ विषयश्च प्रत्यक्षपरोक्षभेदेन स्वलक्षणसामान्ये भेदे वा द्विविध एव, परस्पर परिहारव्यवस्थितात्मसु पदार्थेषु तृतीयराश्यनुप्रवेशाभावात्, तृतीयविषयासत्त्व. परिच्छेद एव कुतस्त्य इति चेत् प्रत्यक्षमहिम्न एवेति ब्रमः, नीले प्रवर्त्तमान प्र. त्यक्ष नीलं नीलतया परिच्छिनत्तीति तावदविवाद एव, तदेव च प्रत्यक्षमनीलमपि व्यवच्छिनत्ति नीलसंविदि तस्याप्रतिभासात् , नीलज्ञानप्रतिभास्यं हि नीलमिति तदितरदनीलमिव भवति, तृतीयमपि राशिमद एव तदपाकरोति, सो ऽपि हि राशिः नीलसंविदि भाति वा न वा।
भाति चेन्नीलमेव स्यान्न प्रकारान्तरं तु तत् ।
नो चेत्तथा ऽप्यनीलं स्यान्नग्रकारान्तरं हि तत् ॥ इदमेव हि नीलानीलयोर्लक्षणं यन्नीलज्ञानावभास्यत्वानवभास्यते नाम, एवं च प्रत्यक्ष स्वविषये प्रवृत्तं तं प्रत्यक्षतया व्यवस्थापयति तत्राप्रतिभासमानं प. रोक्षतया तृतीयमपि प्रकारं पूर्ववदेव प्रतिक्षिपतीत्येवं स्वलक्षणसामान्यव्यात. रिक्तविषयानिषेधे ऽप्येष एव मार्गो ऽनुगन्तव्यः, एवं हि प्रत्यक्षेण स्वविषयः प. रिनिश्चितो भवति, तदुक्तम्, तत्परिच्छिनत्ति अन्यद्यवच्छिनति तृतीयप्रकारा. भावं च सूचयतीत्येकप्रमाणव्यापारः।। __ अन्यथा विषयस्यैव स्वरूपापरिनिश्चियात् ।
कोपादानपरित्यागौ कुर्युरर्थक्रियार्थिनः ॥ तदुक्तम्-अनलार्थ्यनलं पश्यन्नपि न तिष्ठेन प्रतिष्ठेतेति, यद्यपि निर्विकल्पके प्रत्यक्षं पुरोऽवस्थितवस्तुस्वलक्षणं प्रदर्शनमात्रनिष्ठितव्यापारमविचारकमेव तथा ऽपि तत्पृष्ठभाविनां विकल्पानामेव च दर्शनविषये कृतपरिच्छेदतदितरवि. षयव्यवच्छेदतृतीयप्रकाराभावव्यवस्थापनपर्यन्तव्यापारपाटवमवगन्तव्यमितरथा व्यवहाराभावात् , एवं च परस्परं परिहारव्यवस्थितस्वरूपपदार्थव्यवच्छेदि. प्रत्यक्षप्रभावावगतविरोधात्प्रत्यक्षतरविषययोस्तृतीयविषयासत्त्वपरिनिश्चये ऽनु. मानमपि प्रवर्तितुमुत्सहते विरुद्धयोरेकतरपरिच्छेदसमये द्वितीयनिरसनमवश्यं माति विरुद्धत्वादेव शीतोष्णवत् , तृतीयविषयोऽपि तद्विरुद्ध एव तद्बुद्धावप्रतिभासमानत्वात् ।
ननु न त्वं द्वितीयमिव तृतीयं कदा चिदपि विषयमग्रहीः प्रहणे हि विषयद्वयवत्तस्यापि सत्त्वं स्यात् , अगृहीतस्य च विरोधमविरोधं वा कथं निश्चेतुमह.