________________
न्यायमञ्जर्याम्
रविरुद्धविध्यनुवादादिरूपापत्तेरर्थद्वय विधानमतिदुर्घटम् (१), इह पुनः प्रमाणान्तरपरिनिश्चतार्थसूचनचातुर्यमहार्घेषु सूत्रेषु नानार्थविधानं भूषणं भवति न दूषगम्, अनेकार्थसूचनादेव सूत्रमुच्यते, एतदेव सूत्रकाराणां परं कौशलं यदेकेनैव वाक्येन स्वल्पैरेवाक्षरैरनेक वस्तुसमर्पणम्, अध्याहारेण वा तन्त्रेण वा ऽऽवृत्त्या वा तमर्थ प्रत्याययिष्यति सूत्रमिदमिति न दोषः, विभागसामान्यलक्षणयाविधाने पौर्वापर्यनियमो विशेषणलक्षवन्नास्तीति तन्त्रेण युगपदुभयाभिधानमपि न विरुध्यते विशेषलक्षणमनुक्ते (२) सामान्यलक्षणविभागयोस्तु यथारुचि प्रतिपादनमादौ विभागः ततः सामान्यलक्षणम्, आदौ वा सामान्यलक्षणं ततो विभागः, सिद्धान्तच्छलवदुभयं वा युगपदेव प्रतिपाद्यते इति तन्त्रेणावृत्या वा तदुपपादने न कश्चिद्दोष इति ।
प्रमाणविभागाक्षेपः -
प्रास्तां तावदिदं सूत्रे तन्त्रावृत्यादिचिन्तनम् | चतुःसङ्ख्या प्रमाणेषु ननु न क्षम्यते परैः ॥
२६
न्यूनाधिकसङ्ख्याप्रतिषेधेन हि चत्वारि प्रमाणानि प्रतिष्ठाप्येरन्, स च दुरुपपादः, तथाहि प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः, प्रत्यक्षानुमाने द्वे एवेति बौद्धाः, प्रत्यक्षमनुमानमाप्तवचनं चेति त्रीणि प्रमाणानीति साङ्ख्याः, आधिक्यमपि प्रमाणानां मीमांसकप्रभृतयः प्रतिपन्नवन्तः, तत्कथं चत्वार्येव प्रमाणानीति विभागनियमः -
उच्यते, अनुमानप्रामाण्यं वर्णयन्तो बार्हस्पत्यं तावदुपरिष्टात्प्रतिक्षेप्स्यामः, शब्दस्य चानुमानवैलक्षण्यं तल्लक्षणावसरे एव वक्ष्यते इति शाक्यपथो ऽपि न युक्तः ।
( १ ) 'वाजपेयेन स्वाराज्यकामा यजेत' इति वाजपेयशब्दः गुणविधिरुतकर्म. नामधेयम् इति सन्देहे यजेतेत्याख्यातस्य गुणफलाभ्यां तन्त्रेण संबन्धे स्वाराज्ये ६. श्येन यागा यागाद्देश्येन च वाजपेयगुणा विधातुं शक्य इति गुणविधिरयमिति पूर्ण - पक्षे तन्त्रेणोभयविधौ विरुद्ध त्रिकद्वयापत्तिरतः आवृत्योभयविधौ च वाक्यभेद इति कर्मनामधेयमिति सिद्धान्तः विरुद्ध त्रिकद्वयं च -
उपादेयविधेयत्वगुणत्वाख्यं त्रिकं यजेः ।
उद्देश्यानूक्तिमुख्यत्वत्रिकं तस्य गुणं प्रति ।।
इति न्यायमालायां निरूपितम् ।
( २ ) अत्र सामान्यलक्षणे न संभवतीति पूरणीयम् (श्रीम०म० गङ्गाधरशास्त्री) ।