________________
प्रमाणप्रकरणम्
न्द्रियार्थसन्निकर्षोत्पन्नम् इत्यादीनि, इह तु विभागसामान्यलक्षले प्रतिपाद्यते ।
एकनानेन सूत्रेण द्वयं चाह महामुनिः ।
प्रमाणेषु चतुःसङ्घयं तथा सामान्यलक्षणम् ॥ प्रत्यक्षानुमानोपमानशब्दसन्निधाने प्रमाणश्रुतिरुचरन्ती चत्वार्येव प्रमाणानीति दर्शयति ।
ननु न 'चत्वारि प्रमाणानि' इति संख्यावचनः शब्दः श्रूयते नापि प्रत्यक्षादीन्येवेत्यवधारणअतिरस्ति तत्कुतः, इयत्सानियमावगमः, शब्दशक्तिस्वभावादिति ब्रूमः, गाँस्त्रीन् भोजय यज्ञदत्तदेवदत्तावानयेति विना संख्याशब्दमेवकारं च भवत्येव (त्रित्व ) द्वित्वनियमावगमः, एवमिहापि प्रत्यक्षानुमानोपमानश. ब्दाः प्रमाणानीत्युक्ते सामर्थ्यान्न्यूनाधिकसंख्याव्यवच्छेदो ऽवधार्यते इत्येवं तावद्विभागावगमः। __सामान्यलक्षणं तु प्रमाणपदादेव समाख्यानिर्वचनसामर्थ्यसहितादवग. . म्यते, प्रमीयते येन तत्पमाणमिति करणार्थाभिधायिनः पमाणशब्दात्प्रमाका रणं पमाणमत्रगम्यते , तप्रागेव दर्शितम् , प्रसिद्धसाधात्साध्यसाधनमु. पमानमिति च मध्ये साध्यसाधनग्रहणमुपाददानः सूत्रकारः सर्वप्रमाणसाधा. रणं रूपमिदं परिभाषते, यत्साध्यसाधनस्य प्रमाकरणस्य प्रमाणत्वमिति, अशु. द्धप्रमितिविधायिनस्तु प्रामाण्यं प्रसज्यते इति स्मृतिसंशयविपर्ययजनकव्यव. च्छेदाय प्रत्यक्षसूत्रादर्थोत्पन्नमित्यव्यभिचारीति व्यवसायात्मकमिति च पदत्रयमाकृष्यते तद्धि प्रमाणचतुष्टयसाधारणम , अर्थोत्पन्नपदेन फलविशेषणेन स्मृतिजनकम् अव्यभिचारिपदेन विपर्ययाधायि व्यवसायात्मकपदेन संशयजनकं प्र. माणं व्युदस्यते, अतश्चैवमुक्तं भवति अर्थविषयमसन्दिग्धमव्यभिचारि च शानं येन जन्यते तत्प्रमाणमित्येवमेकस्मादेव सूत्रात्सामान्यलक्षणं विभाग श्वावगम्यते ।
नन्वेकस्य सूत्रस्य विभागसामान्यलक्षणपरत्वेन वाक्यभेदः, अर्थैकत्वाच्चैक वाक्यं युक्तम् , उच्यते--
श्रत्यर्थद्वारकानेकवस्तुसूचनशालिषु । सूत्रेष्वनेकार्थविधेर्वाक्यभेदो न दूषणम् ।। प्रमाणान्तरसंस्पर्शशून्ये शब्दैकगाचरे । प्रमेये वाक्यभेदादि दूषणं किल दूषणम् ॥
अर्थद्वयविधानं हि तत्रैकस्य न युज्यते । राजा स्वाराज्यकामो वाजपेयेन यजेतेति गुणविधिपक्षे स्वाराज्यं प्रति यागो विधातव्यो यागं च प्रति वाजपेयगुण विधातव्य इत्येकस्य वाक्यस्य परस्पः
४न्या०