________________
न्यायमअर्याम् प्तिः स्यात्पमाणमपि दूरतस्तस्याः, तस्मान्न पापकं पमाणम् ,
अपि च प्राप्त्यपाप्ती पुरुषेच्छामानहेतुके भवतः अर्थपूतीतिरेव प्रमाण कार्याऽवधार्यते मानस्य लक्षमतः कथयद्भिस्तद्विशेषणं वाच्यं न पुनः पापणशक्तिः प्रामाण्यं कथयितुं युक्तम् ।
सांख्याभिमतप्रमाणलक्षणपरीक्षासांख्यस्तु बुद्धिवृत्तिः पूमाणमिति(१) प्रतिपन्नः विषयाकारपरिणतेन्द्रियादि. वृत्त्यनुपातिना बुद्धिवृत्तिरेव पुरुषमुपर जयन्ती पूमाणम् , तदुपरक्तो हि पुरुषः प्रतिनियतविषयद्रष्टा सम्पद्यते ।।
तदेतदहृदयङ्गमम् , यो हि जानाति बुद्ध्यते ऽध्यवस्यति न तस्य तत्फलमर्थदर्शनमचेतनत्वान्महतः, यस्य चार्थदर्शनं न स जानाति न बुद्धयते नाध्यवस्यतीति भिन्नाधिकरणत्वं प्रमाणफलयोः, ज्ञानादिधर्मयोगः प्रमाणं पुंसि न विद्यते तत्फलमर्थदर्शनं बुद्धौ नास्तीति ।
अथ स्वच्छतया पुंसो बुद्धिवृत्त्यनुपातिनः । बुद्धी चेतनाकारसंस्पर्श इव लक्ष्यते ॥ एवं सति स्ववाचैव मिथ्यात्वं कथितं भवेत् । चिद्धर्मो हि मृषा बुद्धौ बुद्धिधर्मश्चितौ मृषा ।। साकारज्ञानवादांश्च नातीवैष विशिष्यते । त्वत्पक्ष इत्यतो ऽमुष्य तनिषेधान्निषेधनम् ।। निरसिष्यते च सकलः कपिलमुनिप्रक्रियाप्रपन्चो ऽयम् ।
तस्मान्न तन्मते ऽपि प्रमाणमवकल्पते किञ्चित् ॥ तीर्थान्तराभिहितरूपमतः प्रमाणं नैवापवादरहितं प्रतियामः । तेनामलप्रमितिसाधनमिन्द्रियादिसाकल्यमेव निरवद्यमुशन्ति मानम् ॥
प्रमाणलक्षणताद्वभागौतच्चतुर्विधं प्रमाणं तदाह सूत्रकारः, प्रत्यक्षानुमानापमानशब्दाः प्रमाणानि।
इह हि भेदवतः प्रथमं सूत्रोद्दिष्टस्य त्रयं वक्तव्यं सामान्यलक्षणं विभागो विशेषलक्षणं च, तत्र विशेषलक्षणप्रतिपादकानि चत्वारि सूत्राणि भविष्यन्ती.
(१) सांख्यस्त्विति । यदाहुर्वाचस्पतिमिश्रपादाः 'उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्या बुद्धस्तमोऽमिभवे सति यः सत्त्वसमुद्रेकः सोऽध्यवसाय इति वृत्तिरिति ज्ञान. मिति चाख्यायते तदिदं प्रमाणम् इति । एतदुक्तं भवति इन्द्रियसैनिकर्षद्वारा यस्तमो. ऽभिभवसमसमयसत्व समुद्रेकप्रयुक्तो युद्धेविषयाकारपरिणामः स प्रत्यक्षप्रमाणम्, व्याप्लिज्ञानजन्यश्च तथाविधः परिणामोनुमानप्रमाणं, वाक्यजन्यश्च तथाविधः परिणामः आगमप्रमाणमिति ।