________________
प्रमाणप्रकरणम् चेत्स तर्हि हेय एवानुपादेयत्वादिति नैतद्युक्तम् , उपेक्षणीयविषयस्य स्वसंवेद्यत्वेनाप्रत्याख्येयत्वात् ।
हेयोपादेययोरस्ति दुःखप्रीतिनिमित्तता। यत्नेन हानोपादाने भवतस्तत्र देहिनाम् ।। यत्नसाध्यद्वयाभावादुभयस्यापि साधनात्। ताभ्यां विसदृशं वस्तु स्वसंविदितमस्ति नः ॥ उपादेये च विषये दृष्टे रागः प्रवर्तते।
इतरत्र तु विद्वेषस्तत्रोभावपि दुर्लभौ ॥ यत्तु अनुपादेयत्त्वाद्धेय एवेति तदप्रयोजकम् , न ह्येवं भवति यदेतन्नपुंसक स पुमान अस्त्रीत्वात् स्त्री वा नपुंसकमपुंस्त्वादिति स्त्रीपुंसाभ्यामन्यदेव नपुंसकं तथोपलभ्यमानत्वात्, एवमुपेक्षणीयो ऽपि विषयो हेयोपादेयाभ्यामर्थान्तरं तथोपलम्भादिति ।
यदेतत्तणपर्णादि चकास्ति पथि गच्छतः ।
न धीश्छत्रादिवत्तत्र न च कोकोदरादि(१)वत् ॥ तस्मादुपेक्षणीयज्ञानस्य तमप्रापयतो ऽपि प्रामाण्यदर्शनान्न प्रापकत्वं तल्लक्षणम् ।
ननु यावान्प्रामाण्यस्य व्यापारः प्रापणं प्रति तावानुपेक्षणीयज्ञानस्य तमप्रपायतो ऽपि प्रामाण्यविषये तेन साधितः, उक्तं हि राज्ञामादेष्ट्रत्वमेव हन्तु. त्वं प्रदर्शकत्वमेव ज्ञानस्य प्रापकत्वमिति, मैवम्-- __ एवं प्रदर्शकत्वं स्यात्केवलं तस्य लक्षणम् ।
तच्च प्रचलदीशुजलज्ञाने ऽपि दृश्यते ॥ ननु तत्र विपरीताध्यवसायजननादप्रमाण्यं दर्शनं हि मरीचिवलक्षणविषयमेव सलिलावसायं तु जनयदप्रमाणीभवति तथा ट्रकमेव दर्शनमनुकूलेतरविकल्पोपजननतदनुत्पादभेदात् त्रिधा कथ्यते प्रमाणम् , अप्रामाणं प्रमाणं च न भवतीति, नीलज्ञानं हि नीलं प्रति प्रमाणं नीलमिदमित्यनुकूलविकल्पोपजनना. त् , नीलाव्यतिरेकि क्षणिकत्वमपि तेन गृहीतमेव, तत्र तु प्रमाणं न भवत्यनु. कूलविकल्पानुत्पादात् , स्थैर्ये तु तदप्रमाणं विपरीतावसायकलुषितत्वादिति, यद्येवमस्मिन्प्रक्रमे सुतरामिदं प्रमाणलक्षणं दुःस्थम् , सन्तानाध्यवसायः प्रापणं प्रति प्रमाणस्य व्यापार इति च वर्णितवानसि, अतश्च यथा मरीचिस्वलक्षणदशनमुदकाध्यवसायजननादप्रमाणमेवं स्वलक्षणदर्शनमपि तद्विपरीतसन्तानाध्यवसायजननादप्रमाणीभवेदिति, सन्ताने च काल्पनिके व्यवसिते दृश्याभिमुखः किमिति प्रवर्त्तते दृश्यविकल्प्याववेकीकृत्य प्रवर्त्तते यदि वा अविवेकात्पा
(१) काकोदरः फणी।