________________
२२
न्यायमञ्जर्याम् नसमर्थपदार्थप्राप्तिपरिहारभूतायाः प्रवृत्तेनिमित्तं प्रदर्शकत्वमेव ज्ञानप्रदर्दाशते हि विषये प्रवृत्तौ सत्त्यां प्राप्तिर्भवतीति प्राप्ति प्रति प्रमाणस्य प्रदर्शकत्वमेव व्या. पारः, प्रदर्शयता हि तेन सो ऽर्थः प्रापितो भवति यथा हर्तव्यं प्रति राज्ञामाज्ञादानमेव हतृत्वम् , तदुक्तम्-प्रापणशक्तिः प्रामाण्यमिति, लोके ऽपि च प्रद. शितं वस्तु प्रापयतः प्रमाणत्वव्यवहारः, तञ्च प्रापकत्वं प्रत्यक्षानुमानयोरुभयोरप्यस्तीति प्रमाणसामान्यलक्षणम् , तत्र प्रत्यक्षस्य वस्तुस्वलक्षणविषयत्वात्तस्य च क्षणिकत्वेन प्राप्त्यसम्भवे ऽपि तत्सन्तानप्राप्तस्सन्तानाध्यवसायजननमेव प्रापकत्वम् , अनुमानस्य त्वारोपितार्थविषयत्वे ऽपि मूलभूतवस्तुक्षणपारम्पर्यप्रभवत्वान्मणिप्रभामणिबुद्धिवत्तत्प्राप्त्या प्रापकत्वम् , तदिदमध्यवसितप्रापकत्वं प्रामाण्यम् अध्यवसितस्याऽवस्तुत्वेपि तन्मूलवस्तुप्राप्त्या निर्वहति यथाऽध्यवसितप्रापकं च प्रमाणसिति मतम् , अतश्च पीतशङ्खादिग्राहिणां शङखादिमात्र: पाप्तौ सत्यामपि न प्रामाण्यम् , यथा ऽवगतस्याप्राप्तेरवगतो हि पीतः शङ्कः प्राप्यते च श्वेत इति तस्माद्यथाऽवगतार्थप्रापकत्वमविसंवादकत्वं प्रामाण्यमिति ।
तदेतदनुपपन्नम्-इदमेव तावद्भवान् व्याचष्टां किं प्रदर्शितप्रापकं प्रमाणमु. ताध्यवसितप्रापकमिति, तत्रानुमाने तावत्प्रदर्शनमेव नास्ति का कथा तत्प्रापणस्य, प्रत्यक्षे तु बाढं प्रदर्शनमस्ति न तु प्रदर्शितं प्राप्यते क्षणिकत्वेनातिका. न्तत्वात् , अध्यवसितप्रापणमपि दुर्घटम् , अध्यवसायस्य भवन्मते वस्तुविषयत्वाभावादवस्तुनश्च प्राप्तुमशक्यत्वात्तदुक्तं भवद्भिः यथाध्यवसायमतत्त्वाद्यथातत्त्वं चानध्यवसायादिति, मूलभूतवस्तुमाप्तिस्तु काकतालीयं न तु तदन्यतरे. णापि प्रमाणेन स्पृष्टं यद्गत्वा प्राप्यते, सन्तानप्राप्त्या तत्प्राप्तिरित्यपि न युक्तम् , सन्तानस्य भेदाभेदविकल्पाभ्यामनुपपद्यमानत्वात् , एतच्च सविस्तरं क्षणभङ्गभङ्गे निरूपयिष्यते।
ननु काल्पनिके ऽपि सन्ताने सति संवृत्या प्रमाणलक्षणमिदं निर्वक्ष्यति यथोक्तं सांव्यवहारिकस्यैतत्प्रमाणस्य लक्षणं वस्तुतस्त्वनाद्यविद्यावासनारोपि. तग्राह्यग्राहकादिभेदप्रपन्च ज्ञानमात्रभेवेदमिति किं प्राप्यते को वा प्रापयतीति सो ऽयं पलायनप्रकार इव प्रस्तूयते, केयं सम्वृत्तिर्नाम सा ऽपि सत्यसती वा इति विकल्प्यमाना नैव व्यवहारहेतुर्भवति, अविद्यावासनाकृतश्चन भेदव्यवहारः, किं त पारमार्थिक एवेति साधयिष्यते, सांवृत्तसन्तानकल्पनायां वा जात्यवयविप्रभयो ऽपि सांवृत्ताः किमिति नेष्यन्ते, वृत्तिविकल्पादिबाधकोपहतत्वादिति चेत् सन्ताने ऽपि समानः पन्था इति कदाशालम्बनमेतत् , तस्मादसंभवि दर्शित प्रापकत्वमित्यलक्षणमेतत् अव्यापकं चेदं लक्षणम् , उपेक्षणीयविषयबोधस्याव्यभिचारादिविशेषणयोगेन लब्धप्रमाणभावस्याप्यनेनासंग्रहात् ।
ननु को ऽयमुपेक्षणीयो नाम विषयः स ह्युपेक्षणीयत्वादेव नोपादीयते