________________
प्रमाणप्रकरणम्
ननु गृहीते ऽपि विषये प्रवर्त्तमानं प्रमाणं कदा विरमेन तस्य विरतौ के चिदवधिमवगच्छामः प्रमोत्पादस्त्ववधिरनेन लञ्चित एव, उच्यते-विषयान्तरसम्पर्कोद्वा प्रमादाद्वा उपायसंक्षयाद्वा विरामो भविष्यति, अनवस्था ऽपि चेयं न मूलविघातिनी न पत्तरोत्तरविज्ञानोपजननं विना प्रथमज्ञानोत्पादो विहन्यते ।
मूलक्षतिकरीमाहुरनवस्थां हि दूषणम् । मूलसिद्धो त्वरुच्या ऽपि नानवस्था निवार्यते । यदि चानुपलब्धार्थग्राहि मानमुपेयते ॥ तदयं प्रत्यभिज्ञायाः स्पष्ट एव जलाज्जलिः । यश्चेदानींतनास्तित्वप्रमेयाधिक्यलिप्सया । तस्याः प्रमाणतामाह सो ऽपि वञ्चयतीव नः ॥ आविनाशकसद्भावादस्तित्वं पूर्वया धिया। स्पष्टमेव तथा चाह चिरस्थायीति गृह्यते ॥ तस्मादनुपलब्धार्थग्राहित्वे त्यज्यतां ग्रहः। नन्वेतस्मिन्परित्यक्ते प्रामाण्यं स्यात्स्मृतेरपि । न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम् ।
अपि त्वनर्थजन्यत्वं तदप्रामाण्यकारणम् ।। ननु कथमनर्थजा स्मृतिः तदारुढस्य वस्तुनः तदानीमसत्त्वात् ,कथं तर्हि भूतवृष्टयनुमानं नानर्थजं तत्र धर्मिणो ऽनुमेयत्त्वात्तस्य च ज्ञानजनकस्य तत्र भावात् , नद्याख्य एव धमी वृष्टिमदुपरितनदेशसंसर्गलक्षणेन धर्मेण तद्वाननु. मीयते विशिष्टसलिलपूरयोगित्वात् , स चानुमानग्राह्यो धर्मी विद्यते एवेति ना. नर्थजमनुमानम् , कथं तर्हि प्रातिभमनागतार्थग्राहि श्वो मे भ्राताऽऽगन्तेति प्रत्यक्षमर्थजमिष्यते भवद्भिः, तत्र देशान्तरे विद्यमानस्य भ्रातुः श्वो भाव्याग. मनविशेष: तस्येव तथैव ग्रहणम् , तेन च रूपेण गृह्यमाणस्य सतस्तस्य ज्ञा. नजनकत्वमित्यर्थजमेव प्रातिभम् , स्मरणं तु निर्दग्धपित्रादिविषयमनपेक्षितार्थमेव जायमानं दृष्टमित्यन्यत्र देशान्तरस्थितार्थस्मरणे तदर्थसत्त्वमकारणमेव ।
तस्मादनर्थजत्वेन स्मृतिप्रामाण्यवारणात् । अगृहीतार्थगन्तृत्वं न प्रमाणविशेषणम् ।। शब्दस्यानुपलब्धे ऽर्थे प्रामाण्यं चाह जैमिनिः । सर्वप्रमाणविषयं भवद्भिर्वर्ण्यते कथम् ॥
प्रमाणलक्षणान्तरपरीक्षणम् - अपरे पुनरविसम्वादकत्वं प्रमाणसामान्यलक्षणमाचक्षते, तदुक्तम्-प्रमाणमविसम्वादकत्वं च प्रापकत्वमुच्यते ज्ञानस्य च प्रापकत्वं सुखदुःखसाध.