________________
न्यायमञ्जर्याम्
भट्टपक्षाद्विशेषश्च न कश्चित्कथितो भवेत् । नोभयातिशयो ऽप्येष दोषद्वितयसम्भवात् ।। संवेदनं च तत्केन ग्राह्यं ज्ञानानुमापकम् । अनवस्था भवेदस्य ज्ञाने संवेदनान्तरात् ॥ स्वसंवेद्या च संवित्तिरुपरिष्टानिषेत्स्यते । स्मृतिप्रमोषवादे च रजतस्मरणात्मिका ॥ कथं ते फलसंवित्तिः स्वप्रकाशा भविष्यति । नाभाति स्मृतिरूपेण न चाप्यनुभवात्मना ।। न तृतीयः प्रकारो ऽस्ति तत्कथं सा प्रकाशताम् । न च क चिदनाकारा संवित्तिरनुभूयते ।। इयं संविदयं चार्थ इति नास्ति ह्यभेदधीः । अोंकारानुरक्ता तु यदि संवित्प्रकाशते ।। बाह्यार्थनिह्नवस्तर्हि त्वया सौगतवत्कृतः । स्वप्रकाशमते युक्तं न फलं संविदात्मकम् ॥
तस्मात्फलानुमेयस्य न व्यापारस्य मानता । यदपि प्रमाणविशेषणमनधिगतार्थग्राहित्वमभिधीयते परैस्तदपि न साम्प्रतम्, प्रमाणस्य गृहीततदितरविषयप्रवृत्तस्य प्रामाण्ये विशेषाभावात् ।
ननु गृहीतविषये प्रवृत्तं प्रमाणं किं कुर्यात् , प्रमामिति चेद्गृह्येतापि ता. मेव विधातुम् , कृतायाः करणायोगदिति चेन्न प्रमान्तरकरणात्, प्रमान्तरकरणे किं फलमिति चेत्प्रमान्तरकरणमेव फलम् न च फलस्य फलं मृग्यम्, न च प्र. योजनानुवर्ति प्रमाणं भवति, कस्य चैष पर्यनुयोगः, न प्रमाणस्याचेतनत्वात् , पुंसस्तु सन्निहिते विषये करणे च सम्भवन्ति ज्ञानानीति सो ऽपि किमनुयोज्यताम, किमक्षिणी निमील्य नास्से कस्माद् दृष्टं विषयं पश्यसीति, प्रमाणस्य तु न किं चित् बाध्यं पश्यामो येन तदप्रमाणमिति व्यवस्थापयामः न च सर्वात्मनः वैफल्यम् हेये हि कण्टकवृकमकरविषधरादौ विषये पुनः पुनरुपलभ्यमाने मनः सन्तापात्सत्वरं तदपहानाय प्रवृत्तिः, उपादेये ऽपि चन्दनघनसारहारमहिलादौ परिदृश्यमाने प्रीत्यतिशयः स्वसंवेद्य एव भवति । यच्चेदमुच्यते- मी.लो.वा.
यत्रापि स्यात्परिच्छेदः प्रमाणैरुत्तरैः पुनः ।
नूनं तत्रापि पूर्वेण सोर्थों नावधृतस्तथा ।। इति । तदपि न हृदयंगमम् , यतः--
नैवाधिकपरिच्छेदः प्रमाणैरुत्तरर्धवम् ।।
धारावाहिषु बोधेषु कोऽधिको ऽर्थः प्रकाशते ।। न हि स्वहस्ते शतकृत्वोऽपि दृश्यमाने के चन विशेषाः परिस्फुरन्ति ।