________________
प्रमाणप्रकरणम् एतेन भावनाख्यः करोत्यर्थः पुरुषव्यापारो वाक्यार्थ इति यो ऽभ्युपगतः सो ऽपि प्रत्युक्तो वेदितव्यः, न हिं पुरुषव्यापारः कश्चिदुपलभ्यते विशिष्टगुणसमवाय एवास्य कर्तृत्वं न च ज्ञानादयो गुणा एव व्यापारसंज्ञावाच्याः सि. द्धस्वभावत्वात् ।
ननु कियावचनो धातुरिति जानातेरपि कियैव वाच्या स्यात्सा च क्रिया ५ ज्ञानात्मा पुरुषव्यापारः, नायं नियमः कियावचनो धातुरिति 'गडि वदनकदेशे'. इत्यपि दर्शनात् , अपि च घटमहं जानामीत्यत्र भवतः किं प्रत्यवभासते घटमिति तावद्विषयः अहमित्यात्मा जानामीति तु चिन्त्यं किमत्र प्रकाशत इति, न व्यापारः परोक्षत्वात् , फलं तु यद्यत्र प्रकाशते तदेव तर्हि धातुवाच्यमभ्युपगतं भवति तस्मान्न कियात्मकं ज्ञानम् , यदि च क्रियात्मकं ज्ञानमभविष्यन्न भाष्य. ९० कारः कियातः पृथगेनं निरदेक्ष्यत, निदिशति च बुद्धिकर्मणी अपि हि प्रत्यभि. ज्ञायेते ते अपि नित्ये प्राप्नुत इति, तस्मादन्यज ज्ञानमन्या च कियेति न कियास्वभावत्वान्नित्यपरोक्षं ज्ञानम् , यदि च नित्यपरोक्षो ज्ञानव्यापारः स तर्हि प्रतिबन्धाग्रहणादनुमातुमपि न शक्यः कियाविशिष्टबाह्यकारकदृष्टान्तस्य निर. स्तत्वात् , आत्माद्यनुमाने का वातति चेन्न, तत्र सामान्यतो व्याप्तिग्रहणस्य १५ सम्भवादिति वक्ष्यामः, इह तु बाह्यकारकेष्वपि न तत्पूर्वकं फलं दृष्टमित्युक्तम् , न चार्थापत्तिरपि ज्ञातृव्यापारकल्पनायैव प्रभवति इन्द्रियार्थसन्निकर्षवशादेवा. र्थदृष्टताया घटमानत्वात् , का चेयमर्थदृष्टता नाम कि दर्शनकर्मता किं वा प्रकाशस्वभावतेति, तत्र दर्शनस्य परोक्षत्वात्कथं तत्कर्मता ऽर्थस्य दृष्टत्वाद् गृह्येत, विशेषणाग्रहणे विशिष्टप्रतीतेरनुत्पादात् , अर्थप्रकाशतायास्तु सर्वान्प्र- २. त्यविशेषात्सर्वे सर्वज्ञाः स्युः, न स्युः सम्बन्धितयोत्पादादिति चेत् , अकार- । णमेतत् , अर्थस्यैव हि प्रकाशत्वमतिशयो दीपादेवि न पुरुषनियमेन व्यवतिष्ठते।
न च द्वित्वादिना साम्यं तस्मिनियमदर्शनात् । प्रकाशे तु न दीपादौ सम्बन्धनियमः क चित् ।। यदपेक्षाधियो जातं द्वित्वमस्यैव तद्गहः । संवेदनमपि प्रज्ञः कस्यातिशय उच्यते ।। ज्ञातुश्चेदन्तरान्येन व्यापारेणास्य को गुणः । ननु नैव क्रियाशून्यं कारकं फलसिद्धये ॥ उक्तमत्र क्रिया ह्येषा यथादर्शनमिष्यताम् । ज्ञानं संवेदनं वेति विद्मः पर्यायशब्दताम् ।। संवेदनं तु ज्ञानस्य फलत्वेन न मन्महे । अर्थातिशयपक्षे तु सर्वसर्वज्ञता पुनः॥