SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ १८ न्यायमअर्याम् समुदितसकलकारकसम्पाद्य एकैककारकनिर्वयों वा। तत्राद्यपक्ष एकैकं भवेत्कारकमक्रियम् । एकैकनिष्क्रियत्वे च साकल्ये ऽपि कुतः क्रिया ॥ उत्तरस्मिन्पक्षे प्रत्येकमपि पाकक्रियायोगात्कारकान्तरनिरपेक्षादेकस्मात्का. रकात्फलनिष्पत्तिप्रसङ्गः, न च तथाविधधात्वर्थपुरः सरः कारकाणां संसर्गः । क्रियानिमित्तसंसर्गवादिनो हि द्वयी गतिः । सत्यां क्रियायां सम्बन्धः सम्बन्धे सति वा क्रिया ।। मीलनात्(१)पूर्वसिद्धायां क्रियायां मीलनेन किम् । तथा च जन्येत फलं विभक्तैरपि कारकैः॥ मीलनात्तु क्रियासिद्धौ पुनरेकैकमक्रियम् । तथा सति न काष्ठानि ज्वलेयुः पिठराद्विना । काष्ठानि ज्वलन्ति न तु पचन्ति, मैवम् , सत्यपि पिठरे ज्वलन्त्येव काष्ठानि नान्यत्कुर्वन्ति दृश्यन्ते तस्माक्रियान्तराभावात्फलमेवोररीकृत्य कारकाणि संसृज्यन्ते। ननु फलमपि सिद्धं चेत्कः सर्वेषां सिद्धस्वभावानां सम्बन्धः फलं सिद्धं कारकाणि च सिद्धानीति सम्बन्धाभावः, साध्यं चेत्फलं सैव क्रिया परिस्पन्द. व्यतिरिक्तति, मैवं-वोचः फलस्य क्रियात्वानुपपत्तः, ओदनं हि फलं न क्रिया कियानाम्नि तु क्रियमाणे न विवदामहे । ' ननु पाक इदानीं कः न च पर्वाच्यशून्यतैव युक्ता, उच्यते-समुदितदेवदत्तादिसकलकारकनिकरपरिस्पन्द एव विशिष्टफलावच्छिन्नः पाक इत्युच्यते, स एव हि पचेरर्थः ता एव काष्ठपिठरादिक्रिया ज्वलनभरणादिस्वभावाः पृथक्तया व्यवस्थिताः तथात्वेनैवावभासन्ते समुदितास्तु सत्यः फलान्तरावच्छेदादूपान्तरेण पाकादिना परिस्फुरन्ति व्यपदिश्यन्ते च, तथा च देवदनः पचतीतिवस्काष्ठानि पचन्ति स्थाली पचतीति व्यपदेशो दृश्यते, देवदत्तस्यापि दीविघट्ट. नादिरेव परिदृश्यमानस्तत्र व्यापारः आत्मव्यापारपूर्वको भवितुमर्हति, नैतदेवं न ह्यात्मनो व्यापारः कश्चिदस्ति इच्छाद्वेषपूर्वकप्रयत्नवशादेव स भौतिकव्यापारकरणतां प्रतिपद्यते । तस्मात्कारकचक्रण चलता जन्यते फलम् । न पुनश्चलनादन्यो व्यापार उपलभ्यते ।। चलन्तो देवदत्ताद्यास्तदनन्तरमोदनः । एतावदृश्यते त्वत्र न त्वन्या का चन किया । (१) मिलनादिति युक्तः पाठः, एवमग्रेऽपि ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy