SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ प्रमाणप्रकरणम् १७ मकव्यापारव्यतिरेकेण बाह्यकारकेष्वपि सूक्ष्मा नाम का चिदस्ति क्रिया, सा हि यदि नित्या जातिवद्, अथानित्या रूपवद्वस्तुधर्म इष्येत, तत्र यदि नित्या तहि सर्वदा वस्तुनः क्रियायोगात्सर्वदा फलनिष्पत्तिप्रसङ्गः, अथ कारकनिर्वयों क्रिया सापीदानी कार्यत्वात् सव्यापारकारककार्या भवेदित्यनवस्था, निष्कियकारककार्यत्वे तु क्रियामिव फलमपि निष्क्रियाण्येव कारकाणि कुर्युरिति किं क्रियया। ननु करोतीति कारक क्रियावेशमन्तरेण कारकत्वानुपपत्तः, सत्यं--करोतीति कारक तत्तु फलमेव करोति न क्रियाम् । ____ ननु करोतीति यद् ब्रूषे सेयमुक्तैव क्रिया भवति चैत्रः कटं करोतीति चै. त्रस्येव कटस्येव करोत्यर्थस्याप्रत्याख्येयत्वात् तत्कृतमेव चैत्रादीनां कारकत्वम् , उच्यते-नातान्द्रियक्रियायोगनिबन्धनः कारकभावः क्रियाया अतीन्द्रियत्वेन तद्योगकृतकारकत्वानधिगमे व्यवहारविप्रलोपप्रसङ्गात् , क्रियावेशकृतं हि . तत्कारकत्वमनवगच्छन्तः कथं फलार्थिनस्तदुपाददीरन् । मत्पक्षे कारकत्वं हि नास्ति किं चिदतीन्द्रियम् । कारकत्वस्वरूपस्य सहकार्यादिसन्निधिः ॥ तावदेव विनिश्चित्य तदुपादीयते ऽथिभिः । तदेवोपाददानश्च फलमप्यधिगम्यते । निर्व्यापारस्य सत्त्वस्य को गुणः सहकारिभिः । सव्यापारस्य सत्त्वस्य को गुणः सहकारिभिः । अथ व्यापार एवेष सर्वैः सम्भूय साध्यते । किं फलेनापराद्धं वस्तद्धि सम्भूय साध्यताम् ।। यत्तु करोत्यर्थस्याप्रत्याख्येयत्वादित्युक्तं तत्रोच्यते-परिस्पन्द एव भौतिको व्यापारः करोत्यर्थः, न हि वयं परिस्पन्दात्मकं परिदृश्यमानं व्यापारमपन्हुमहे प्रतिकारकं विचित्रस्य ज्वलनादेव्यापारस्य प्रत्यक्षमुपलम्भात् , अतीन्द्रियस्तु व्यापारो नास्ताति महे, ननु पाको नाम धात्वर्थः परिहश्यमानज्वलनादिव्यापारव्यतिरिक्त एषितव्य एत्र तमन्तरेण फलनिष्पत्तेरभावात् , असति च तस्मिन्किमधिकृत्य कार. काणि संसृज्येरनित्युक्तं तदयुक्तम् , यं तमेकं धात्वर्थ साध्यं बुध्यसे स किं यदि स्वकाले (ज्ञानं ) नावगतं कथं तर्हि पश्चादवगम्यतेऽत आह-नान्यथेति अस्ति हि खलु पश्वा ज्ञानावधारणे प्रमाणमर्थापत्तिः ज्ञातान्यथानुपपत्तिप्रभवा सा प्रागज्ञातेऽर्थे न जायते पादुपजायत इति युक्तमेव प्रमाणसनावादुत्तरकालमेव ग्रह. णम् इति श्लोकवार्तिकव्याख्या काशिका । ३ न्या०
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy