________________
न्यायमार्याम् मभिदधति ते बाढं निरसनीया भवन्त्येव, वयं तु विज्ञानाद्भिन्नमेव फल. मर्थदृष्टताख्यमभ्युपगमच्छामः(१), तेनैव तदनुमीयते ज्ञानं हि नाम क्रियात्मकं क्रिया च फलानुमेया ज्ञातृव्यापारमन्तरेण फलानिष्पत्तः संसर्गोऽपि कारकाणां क्रियागर्भ एव भवति तदनभ्युपगमे किमधिकृत्य कारकाणि संसज्येरन् , न चोर्ससंसष्टानि तानि फलवन्ति, क्रियावेशवशाच्च कारकं कारकं भवति, अपरथा हि तद्वस्तुस्वरूपमात्रमेव स्याद् न कारकम, ततश्च न फलार्थिभिरुपा. दीयेतेति व्यवहारविपलोपः, तस्माद्यथा हि कारकाणि तण्डुलसलिलानलस्था ज्यादीनि सिद्धस्वभावानि साध्यं धात्वर्थमेकं पाकलक्षणमुररीकृत्य संसृज्यन्ते, संसृष्टानि च क्रियामुत्पादयन्ति तथाऽऽत्मेन्द्रियमनोऽर्थसन्निकर्षे सति ज्ञानाख्यो व्यापार उपजायते स च न पत्यक्षः अर्थस्यैव बहिर्देशसम्बद्धस्य ग्रहणादाकार. द्वयप्रतिभासाभावादगृहीतस्यापि तस्य चक्षुरादिवदुपायत्वात्परोक्षोऽपि चासो विषयपकाशतालक्षणेन फलेन कल्प्यते तदाह भाष्यकारः 'न ह्यज्ञा(२)तेऽथे कश्चिद्बुद्धिमुपलभते ज्ञाते त्वनुमानादवगच्छती'ति, वार्तिककृताऽप्युक्तम्
नान्यथा ह्यर्थसद्भावो दृष्टः सन्नुपपद्यते ।
ज्ञानं चेन्नेत्यतः पश्चात्पमाणमुपकल्प्यते ।। इति(३)। तदेष फलानुमेयो ज्ञानव्यापारो ज्ञानादिशब्दवाच्यः पमाणम् , इन्द्रियादी. नां तदुत्पादकतया ज्ञानमुपचरति न साक्षादिति ।
___ मीमांसकमतनिराकरणम् - अत्र पतिविधीयते - अहो बत इमे केभ्यो विभ्यतः श्रोत्रियाः परं किमपि वैक्लव्यमुपागताः- न खल्वनित्यं परोक्षं ज्ञानं भवितुमर्हति, ज्ञातोऽर्थ इति क चित्तद्विशिष्टार्थपत्यवमर्शदर्शनाद् विशेषणाग्रहणे शुक्ल: प्रट इतिवद्विशिष्टपतीते. रनुत्पादात् , कश्वायमियान्सन्त्रासः विषयग्रहणकाले विज्ञानाग्रहणमात्रकेण बाह्यार्थनिह्नववादिनः शाक्याः शक्याः शमयितुम् , यत्तु क्रियास्वभावत्वात्तस्य परोक्षत्वं तदयुक्तम् , न हि क्रियास्वभावं ज्ञानमपि तु फलस्वभावमेव, अपि च क्रियाऽपि प्रत्यक्षद्रव्यवर्तिनी प्रत्यक्षैव भट्टानां प्रत्यक्षाश्चात्मा तत्किमनेनापराद्धं यदेतदीयक्रियाया अपत्यक्षत्वमुच्यते, न चोत्क्षेपणादिमेदभिन्नपरिस्पन्दा
(१) अभ्युपगच्छाम इति । तदुक्तं शास्त्रदीपिकायाम् ज्ञानक्रिया हि सकमिका कर्मभूतेऽर्थे फलं जनयति तच्च फलमेन्द्रियकमिन्द्रियज्ञानजन्यमापरोक्ष्यम् लिङ्गादि. ज्ञानजन्यं तु पारोक्ष्यमित्युच्यते तदेव च फलं कार्यभूतं कारणभूतं विज्ञानमुपकल्प. यति' इति । .. (२) शबर० अ० १ पा० १ स० ॥
(३) श्लोकवार्तिके शून्यवादे श्लौं ० १७८ ॥