________________
न्यायसूत्रोदारेदर्शनस्पर्शनाभ्यामेकार्थग्रहणात् ॥ १ ॥ न विषयव्यवस्थानात् ॥ २॥ तद्वधवस्थानादेवात्मसद्भावादप्रतिषेधः ॥ ३ ॥ शरीरदाहे पातकाभावात् ॥ ४ ॥ तदभावः सात्मकप्रदाहेऽपि तन्नित्यत्वात् ॥ ५ ॥ कार्याश्रयकर्तृवधात् ॥ ६॥ सन्यदृष्टस्येतरप्रत्यभिज्ञानात् ॥ ७ ॥ नैकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात् ॥ ८॥ एकविनाशे द्वितीयाविनाशान्नैकत्वम् ॥ ९ ॥ अवयवनाशेप्यवयव्युपलब्धेरहेतुः ॥ १०॥ दृष्टान्तविरोधादप्रतिषेधः ॥ ११ ॥ इन्द्रियान्तरविकारात् ॥ १२ ॥ न स्मृतेः स्मर्तव्यविषयत्वात् ॥ १३ ॥ तदात्मगुणसद्भावादप्रतिषेधः ॥ १४ ॥ अपरिसंख्यानाच्च स्मृतिविषयस्य ॥ १५ ॥ नात्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ॥ १६ ॥ शातुर्मानसाधनोपपत्तेः संशाभेदमात्रम् ॥ १७॥ . नियमश्च निरनुमानः ॥ १८ ॥ पूर्वाभ्यस्तस्मृत्यनुबन्धाजातस्य हर्षभयशोकसंप्रतिपत्तेः ॥ १६॥ पादिषु प्रबोधसंमीलनविकारवत्तद्विकारः ॥ २०॥
१ इदं सूत्रमिति वार्तिकम् । २ न वि-त् इति ता० टी० । ३ तदू-ध इति ता० टी० । तव्यवस्थामादात्मसद्भावादप्रतिषेध इति सूत्रमिति वार्तिकम् । ४ इदं सूत्रमिति वार्तिकम् । ६ तद-वति ता० टी०। ६ न कार्याश्रयकर्तवधादिति सूत्रमिति वासिकम् । ७ सव्येन चक्षुषा दृष्टमितरेण प्रत्यभिजानातीति सूत्रमिति वार्तिकम् । सव्य-स् इति ता० टी०। ८ नैक-त् इति ता० टी० । इदं सूत्रमिति वार्तिकम् । ९ एक-त्वमिति ता० टी० । १०.अस्य सूत्रत्वे मूलं न्यायत्वालोकः न्यायसूचीनिबन्धश्च । ११ अस्य सूत्रत्वे वातिकं प्रमाणम् । १२ इन्द्रिया-त् इति ता० टी० प्रतिसन्धान प्रकारान्तरेण सूचयतीति परिशुद्धिः। १३ अस्याक्षेप सूत्रमिति न स्मृ-त् ता०डी० । १४ तदा-ध इति ता०टी०। १९ वं-पु. पञ्चदशसूत्रं नास्ति । अस्य सूत्रत्वे वृत्तिकृतोपि संशयः । १६ इदं सूत्रमितिपरिशुद्धिः । न्या. यतत्वालोकश्च । १७-१८ अमयोः सूत्रत्वे प्रमाणं न्यायतत्वालोकः । १९ अस्याथस्य ज्ञापनार्थ पूर्वाभ्यस्तेत्यादि सूत्रमिति वार्तिकम् । २० इदं सुत्रमिति वार्ति