________________
गोतमसूत्रपाठः ।
१३
शतवर्षकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् ॥ २१ ॥
प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ॥ २२ ॥ अयसोऽयस्कान्ताभिगमनवत्तदुपसर्पणम् ॥ २३ ॥
नान्यत्र प्रवृत्त्यभावात् ॥ २४ ॥ वीतरागजन्मादर्शनात् ॥ २५ ॥ सगुणद्रव्योत्पत्तिवत्तदुत्पत्तिः ॥ २६ ॥ न संकल्पनिमित्तत्वाद्रागादीनाम् ॥ २७ ॥ पार्थिवं गुणन्तरोपलब्धेः ॥ २८ ॥ श्रुतिप्रामाण्याच्च ॥ २६ ॥
कृष्णसारे सत्युपलम्भाद्व्यतिरिच्य चोपलम्भात्संशयः ॥ ३० ॥
महदणुग्रहणात् ॥ ३१ ॥
रश्म्यर्थसन्निकर्षविशेषात्तद्ग्रहणम् ॥ ३२ ॥
तदनुपलब्धेरहेतुः ॥ ३३ ॥
नानुमीयमानस्य प्रत्यक्षताऽनुपलब्धिरभावहेतुः ॥ ३४ ॥ द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः ॥ ३५ ॥
अनेकद्रव्यसमवायाद् रूपविशेषाश्च रूपालब्धिः ॥ ३६ ॥ कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ॥ ३७ ॥
अव्यभिचाराच्च प्रतिघातो भौतिकधर्मः ॥ ३८ ॥
कम् । तद्विकार इत्यख्य स्थाने तदुपपत्तेरिति न्यायसूत्रविवरणे पाठः । विकारे तद्विकार इति न्यायतत्वाला के पाठः । २१ नाकस्मिकः पद्मादिप्रबोधसंमीलन विकार इति सूत्रार्थ इति वार्तिकम् । २२-२३-२४-२५ इमानि सूत्राणीति वार्तिकम् । न्यायतत्वालोकश्वः । २६ अनैकान्तिकपक्षे सूत्रमिति वार्तिकम् । २७ अस्य सूत्रत्वे न्यायतत्वालोकोः न्यायसूचीनिबन्धश्च प्रमाणम् । २८ सिद्धान्तसूत्र · मिति वृत्ति: । इदं सूत्रमिति परिशुद्धिः । अस्याग्रे १ पार्थिवाप्यतैजसं तद्गुणोपलब्धेः । ३ निःश्वासेाच्छ्वासेापलब्धेचातुर्भीतिकम् । ३ गन्धस्वेदपाकव्यूहविकाशदानेभ्यः पञ्चभौतिकम् । इति सूत्रत्रयं वृत्तावस्ति तद्गौतमप्रणीतं न भवतीति भाष्यालोचनात् प्रतीयते । न्यायसूचीनिबन्धे न्यायतत्वालोके च दृश्यते । २९ अस्य सूत्रत्वे प्रमाणं न्यायतत्वालेाकः । ३० संशयकारणप्रतिपादनार्थं सूत्रमिति वार्तिकम् । ३१ अस्य सूत्रत्वे प्रमाणं न्यायतत्वालेाकः । ३२ रश्म्य - णमिति ता० टी० । ३३ ह सूत्रमिति वार्तिकम् । ३४ एवं तहदं सूत्रं नोपलब्धेः कारणप्रतिपादकमिति वार्तिकम् । ३१ शेषं भाष्ये इति वार्तिकस्वरसादस्य सूत्रत्वं सिद्धति उपलब्ध्यनियम इति क्वचित्पाठः । ३६ एवं च सूत्रमिति वार्तिकम् । ३७ शेषं भाष्य इति वार्तिकस्वरसादस्य सूत्रत्वं सिद्ध्यति । ३८ इदं सूत्रं न्यायसूचीनिबन्धे न्यायतत्वाला के