SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ गोतमसूत्रपाठः । समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाद्वा न संशयः ॥ १॥ विप्रतिपत्त्यव्यवस्थाध्यवसायाच्च ॥ २ ॥ विप्रतिपत्तौ च सम्प्रतिपत्तेः ॥ ३ ॥ अव्यवस्थात्मनि व्यवस्थितत्वाच्चाव्यवस्थायाः ॥ ४ ॥ तथात्यन्तसंशयस्तद्धर्मं सातत्योपपत्तेः ॥ ५ ॥ यथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नासंशयो नात्यन्तसंशयो वा ॥ ६ ॥ यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः ॥ ७ ॥ प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः ॥ ८ ॥ पूर्व हि प्रमाणसिद्धौ नेन्द्रियार्थसन्निकर्षात्प्रत्यक्ष सिद्धिः ॥ ६ ॥ पश्चासिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः ॥ १० ॥ युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावा बुद्धीनाम् ॥११॥ त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः ॥ १२ ॥ सर्व प्रामाण्यप्रतिषेधाश्च प्रतिषेधानुपपत्तिः ॥ ६३ ॥ तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः ॥ १४ ॥ त्रैकाल्याप्रतिषेधश्च शब्दादाताद्यसिद्धिवत्तत्सिद्धेः ॥ १५ ॥ प्रमेया च तुलाप्रमाण्यवत् ॥ १६ ॥ प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः ॥ १७ ॥ तद्विनिवृत्तेर्वा प्रमाणसिद्धिवत्प्रमेयसिद्धिः ११८ ॥ न प्रदीपप्रकाशसिद्धिवत्तत्सिद्धेः ॥ १९ ॥ १ समानानेकधर्माध्यवसायादित्येवमादि सूत्रमिति वार्तिकम् । २ अस्य सूत्रत्वे विश्वनाथपञ्चाननवृत्तिः तत्वालेाकश्च प्रमाणम् । ३ अस्य सूत्रत्वे वार्तिकं प्रमाणम् । ४-५-६-७ ८-९-एषां सूत्रत्वे वार्तिकं मानम् । नवमसूत्रे प्रत्यक्षसिद्धिरित्यस्य स्थाने प्रत्यक्षोत्पत्तिरित्यन्यत्र पाठः 1 १० पश्चात्सिद्धाविति सूत्रमिति वार्तिकम् । ११ युगपत्सिद्धाविति सूत्रमिति वार्तिकम् । १२ अयमपि प्रतिषेधस्त्रिष्वपि कालेषु नोपपद्म इत्ययं सूत्रार्थ इति वार्तिकम् । १३ अन्य सूत्रत्वे न्यायसूचीनिम. धःप्रमाण १४ इदं सूत्रमिति परिशुद्धिः । १५ इदं सूत्रमिति वार्तिकम् । १६ अस्य चार्थस्य ज्ञापनार्थ सूत्रमिति वार्तिकम् । प्रमेयता चेति वृत्तिसंमतः पाठः । १७ पूर्वपक्षसूत्रमिति वृत्तिः प्रमाणमा मितिभागो न्यायतत्वालोके न दृश्यते । १८ अस्य सूत्रत्वे प्रमाणं नोपलभ्यते । न्यायतत्वालोकः प्रमाणमित्यन्ये । तत्सिद्धिरित्यस्य : स्थाने प्रमेयसिद्धिरिति कचित्पाठः । १९ सिद्धान्तसूत्रमिति वृत्तिः एतदग्रे 'क्वचिन्निवृसिदर्शनादभिवृत्ति दर्शनाच कचिदनैकान्तः' इति सूत्रमस्ति इति तात्पर्यटीकायावग
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy