________________
न्यायसूत्रोद्धारे
स प्रतिपक्ष स्थापनाहीना वितण्डा ॥ ३ ॥
सव्यभिचारविरुद्ध प्रकरणसमसाध्यसमकालातीता हेत्वाभासाः ॥४॥ अनैकान्तिकः सव्यभिचारः ॥ ५ ॥ सिद्धान्तमभ्युपेत्य द्विरोधी विरुद्धः ॥ ६ ॥ यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥ ७ ॥ साध्याविशिष्टः साध्यत्वात्साध्यसमः ॥ ८॥ कालात्ययापदिष्टः कालतीतः ॥ ९ ॥ वचनविघातेोऽर्थविकल्पोपपत्या छलम् ॥ १० ॥
तत्त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं चेति ॥ ११ ॥ अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥१२॥ सम्भवतोऽर्थस्यातिसामान्ययोगादसम्भूतार्थकल्पना सामान्यच्छ
लम् ।। १३ ।।
'धर्मविकल्प निर्देशेऽर्थ सद्भावप्रतिषेध उपचारच्छलम् ॥ १४ ॥ वाकूलमेवाचारच्छलं तदविशेषात् ॥ १५ ॥ न तदर्थान्तरभावात् ॥ १६ ॥
अविशेषे वा किञ्चित्साधम्र्म्यादेकच्छुलप्रसङ्गः ॥ १७ ॥ साधर्म्यवैधम्याभ्यां प्रत्यवस्थानं जातिः ॥ १८ ॥ विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥ १९ ॥ तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ॥ २० ॥
इति गौतमसूत्रे प्रथमाध्यायस्य द्वितीयमाह्निकम् । इति गौतमसूत्रे प्रथमोध्यायः ।
येभ्यः प्रमाणादिभ्यो व्यवच्छेदः सूत्रार्थ इति ता० टी० । ३ सप्र-डा इति ता० टी० । ४ विभागादेशपरं सूत्रं सव्य-सा इति ता० टी० । अनैकान्त इति वङ्गा क्षरसूत्रपुस्तकपाठः अनै-- र इति ता० टी० ६ कोऽस्य सूत्रस्यार्थ इति वातिकमू । ७ प्रकरणसमलक्षणाय सूत्रम् इति ता० टी० । ८ । साध्य-म इति ता० टी० 10 1 ९ उद्देशक्रमसंगत्या बाघलक्षणाय सूत्रमिति तत्वालोके वाचस्पतिमिश्रः । १० वच लमिति सा०टी० । ११ विभागसूत्रमवतारयति ता०टी० । १२ अवि- लमिति ता०डी० । १३ सम्भ-लमिति ता०डी० । १४ धर्म-कमिति ता०टी० । ११ इदं सूत्रमिति वार्तिकम् । १६ सिद्धान्तसूत्रं न त- त् इति ता० टी० । १७ कोऽख्य सूत्रस्यार्थ इति वार्तिकम् । १८ जातिलक्षणाय सूत्रमिति न्यायतश्वालोकः । १९ विप्रसूनमिति ता० डी० । २० ग्राम्सरमवतारयितुं भाष्यकार आहेति ता० टी० ।