SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ निग्रहस्थानप्रकरणम् । द्मावनं च यद्भवता निग्रहस्थानमाख्यातं तत्र प्रसज्यप्रतिषेध एव केवल श्राश्रीयमाणे हेत्वाभासा अपि च निग्रहस्थाने भवेयुः, साधनाङ्गस्यानभिधानं मौ. ख्यमेव केवलं निग्रहस्थानं भवेत् , साधनाङ्गवचनमदोषोद्भावनमपि पर्युदासव्याख्यानाह भवत्येव ततश्च भूतदोषानुभावनमप्रतिमा अभूतदोषोद्भावमं च निरयोज्यानुयोगः । अथाभूतदोषोद्भावने ऽपि भूतदोषाप्रतिभानमस्त्येवेति तदेवास्तु निग्रह स्थानमित्युच्यते तर्हि मूकत्वमेवैकं निग्रहस्थानं स्यादसाधनाङ्गवचने ऽप्येवं वक्तुं शक्यत्वादित्युक्तमेव । __ अपसिद्धान्तस्य लक्षणम्सिद्धान्तमभ्युपेत्यानियमारकथाप्रसङ्गा उपसिद्धान्तः ॥ अ. ५ श्रा. सू. २५ । यं के चन प्रथमं सिद्धान्तमभ्युपगम्य कथामुपक्रमते कथाप्रसङ्गाध सिषाध. यिषितार्थसमर्थने रभसेन दूषणोद्धरणाश्रद्धया वा सिद्धान्तविरुद्धमभिधत्ते सो. उपसिद्धान्तेन पराजीयते, यद्यथा सांख्यः प्रतिवादिनि सन्निधाने नासतो विद्य. ते भावो नाभावो विद्यते सत' इति स्वसिद्धान्तं प्रथमं प्रतिज्ञाय प्रधानसिद्धये साधनप्रयोगं करोति-व्यक्तं विकारजातमेकप्रकृति समन्वयदर्शनात , मृदन्विता हि मृद्विकाराः कुण्डपिठरशरावप्रभृतय एकप्रकृतिका दृष्टा एवमस्यापि गवा. श्वादिविकारजातस्य सुखदुःखमोहान्वयदर्शनात् तदात्मकैकप्रकृतिप्रभवत्वेन भवितव्यम्-एवमुक्तवानसौ नैयायिकेनानुयज्यते-अथ का प्रकृति म का च विकृ. तिरिति, अविदितप्रकृतिविकृतिस्वरूपो हि कथं विकृतीनामेकप्रकृतित्वमेकत्वं जानीयादिति, एवमनुयुक्तः कापिल आह-यस्यावस्थितस्य धर्मान्तरनिवृत्ती धर्मान्तरं प्रवर्तते सा प्रकृतिः यत्तद्धर्मान्तरं प्रवर्तते सा विकृतिरिति, सो ऽयमेवं वदन्प्रागभ्युपगतसदसन्निरोधप्रभवाभावसिद्धान्तविरुद्धाभिधानादपसिद्धान्तेन नि. गृहयते, यदि पूर्वधर्मनिरोधे धर्मान्तरप्रादुर्भावस्तदा नासतो विद्यते भावो ना भावो विद्यते सत इति स्वसिद्धान्तो होयते, अथ सिद्धान्तो न त्यज्यते तर्हि प्रकृतिविकारानिश्चयाद्धत्वसिद्धौ साध्याभावः प्रसज्यत इति । "अत्राह हेतुप्रयोगं कृतवति कापिले नैयायिकस्तदसिद्धतोद्भावनया प्रत्यव. तिष्ठतां प्रकृतिविकृतिस्वरूपप्रश्नस्य को ऽवसरः ? तदिदमथान्तरगमनमस्य भ. वेदेवं पृच्छतः अर्थान्तरगमनं स्वप्रन्थे निग्रहस्थानं लिख्यते, अथ चाऽधुना तेनैव व्यवह्रियत इति को ऽयं नयः, यदि तु सांख्यमतं निराचिकीर्षितं तद. सिद्धतव हेतोरुद्भाव्यतां प्रकृत्यन्वयस्य विकारेषु संभवादिति, विकारा हि प्र. वृत्तिनिवृत्तिधर्मकाः न चैवंप्रकारमव्यक्तधर्ममव्यक्तान्वये हि विकाराणां प्रवृ. शिनिवृत्त्यात्मकत्वं होयेतेत्येवमसिद्धत्वाद्धताहेत्वाभासप्रयोगादेव सांख्यो निग. होत इति न निगहस्थानान्तरमपसिद्धान्त इति"
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy