SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ २०६ न्यायमअर्याम् ति, अपि च नेदं निग्रहस्थानान्तरमपदिश्यते किं त्वप्रतिभैवेति, तथाहि यदि तावदुत्तरपाक्षिकः पूर्वपाक्षिकं साधनाभासमप्याचक्षागमुपेक्षेत तत्र दूषणं नोद्भावयेत् तदुत्तराप्रतिपत्त्या स निगृह्यते न पर्यनुयोज्योपेक्षणेन, वस्तुतस्तु द्वयोरपि तत्र जयपराजयनिधोरणमनुपपन्नमकस्य साधनाभासवादित्वादितरस्य च तदु. त्तराप्रतिभानात् , अथ पूर्वपाक्षिकं दुषणाभासवादिनं दोषप्राप्तमुत्तरपाक्षिको न निगृह्णाति तथा दूषणाभासवादित्वादितरस्य च तदनुद्भावनादिति" 'अत्रोच्यते नाप्रतिभायाः सम्यक्साधनविषयत्वात् , सम्यक्साधने च प्रयुक्ते तदुत्तरस्याप्रतिपत्तिरप्रतिभा भवति साधनाभासे तु प्रयुक्ते तदाभासतानुद्भावना. त्पर्यनुयोज्योपेक्षणं भवति, अत्र हि साधनाभासवादी पर्यनुयोज्य एवेति विशेषः, यत्तवस्तु वृत्तेन न कस्य चिज जयः पराजयो वेति तदेवमेव,किं तु जल्पे पुरुष. शक्तिपरीक्षायामिदं निग्रहस्थानमुच्यते, तदुद्भावयिता तु यद्विकल्पितस्तत्राप्युच्यते पूर्वपाक्षिकेण साधनाभासे प्रयुक्त उत्तरपाक्षिकेण तस्मिंस्तथात्वेनानुद्भा. वित प्राश्निकानामपृष्टानां वक्तुमवसराभावात्स एव साधनाभासवादी कदा चिद्वयात्यादेवं ब्रूयान्मया ऽस्य शक्ति जिज्ञासमानेन साधनाभासप्रयोगः कृत एष तु मूर्खस्तं न जानातीति तदा कथं न निगृह्यते, एतेन दूषणामासवाद्यपि व्याख्यातः, अथ वोभयाभ्यर्थिताः सभापतिनियुक्ता वा पाश्निकास्तथा कियन्तो निगृहन्त्येव पर्यनुयोज्योपेक्षिणम , साधनाभासवादिनो हि धूर्ततया तदभिधानं सम्यक्साधनमसाधनादर्थसंशयाद्वा संभवति उत्तरपाक्षिकस्य . उत्तरानुद्भावनं मोहादेवेति स एव पराजीयते ॥ निरनुयोज्यानुयोगस्य लक्षणम्-- । अनिग्रहस्थाने निग्रहस्थानाभियोगो निरनुयोज्यानुयोगः ॥ अ. ५ आ. २ सू. २३ । अनुज्झितयथोचितक्रममुपपन्नवादिनमप्रमादिनमनिग्रहाहमपि निगृहीतो ऽसीति यो ब्रूयात्स एवाभूतदोषोद्भावनान्निगृह्यते । _ "अत्राह यदि तावदुत्तरपाक्षिकः पूर्वपाक्षिकमदुष्टसाधनमभूतैरेव दोषैरमियुङ्क्ते तथा सति भूतदोषोद्भावनस्योत्तरस्याप्रतिपत्तेरप्रतिभयैव सनिगृह्यतां किं निरनुयोज्यानुयोगाख्यन्यूनतानिग्रहस्थानकथनेन, भूतदोषाभियोगपक्षे तु पू. पाक्षिक एव साधनाभास(प्र)योगात्पराजीयते, अनुयोज्यः खल्वसौ न निरनुयोज्यानुयोगस्य विषयो भवितुमर्हति" अत्रोच्यते अहो नु खल्वयं तपस्वी पर्युदासस्य प्रसज्यप्रतिषेधस्य च विशे. षमपश्यन्नतिमात्रं मुह्यति भूतदोषाप्रतिभानमन्यदन्यन्यचाभूतदोषप्रतिभानम् , एकत्राप्रतिपत्तिरितरत्र विपरीतप्रतिपत्तिः, तत्र भूतदोषाप्रतिपत्तिरप्रतिभा, अभूतदोषप्रतिपत्तिरननुयोज्यानुयोगः, अपि च असाधनाङ्गवचनमदोषो.
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy