________________
निग्रहस्थानप्रकरणम् ।
२०५ अत्रोच्यते कथामुपक्रम्य प्रतिज्ञां वा हेतुमभिधाय तद्विवरणसरणिमिषमवलम्ब्य किं चिदर्थान्तरमुपन्यम्यति यत्तदर्थान्तरमुदाहृतमादावेव इह तु कथापू. वरङ्ग कथायां वा किमपि करणीयनिभमभिधाय सभयमपसरति सदस इति कथमिव तत्तुल्यता भवति, अप्रतिभया ऽपि श्रुतपूर्वपक्षः पराजीयते, इह तु पूर्वपक्षमेव न शृणोति वा न करोति वा प्रथममेव पलायत इति महान्विशेषः, अतिप्रसङ्गस्त्वसकृत्पराकृतः, यत्तु हेत्वाभासेष्वन्तर्भावमस्य कीतिरकीर्तयत्तदती. व सुभाषितम् , क हेस्वाभासः क कार्यव्यासङ्गः संप्रधारणेव रमणीयेयम् , अ. हेतोहेतुवदाभासनं कीर्तिना दृष्टमिति परमं नः कुतूहलम् ।
मतानुज्ञाया लक्षणम्स्वपक्षे दोषाभ्युपगमात्परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥
गो. सू. अ. ५ आ. २ सू. २१ स्वपने परापादितदोषमनुद्धृत्याभ्युपगम्य परपक्षे तमेवापादयतः परमता. नुज्ञा नाम निग्रहस्थानं भवति, यथा चौरो भवान्पुरुषत्वात्प्रसिद्धचौरवदित्युक्त सत्याह भवानपि चोरः पुरुषत्वादिति, सोऽयमेवं वदन्नात्मनः परापादितं दोषमभ्युपगतवानिति मतानुज्ञया निगृह्यते ।
"अत्राह अनेकान्तिके हेतौ परेणोक्ते तदुद्भावनमनेन प्रकारेण प्रतिवादी करोतीति किमिति निगृह्यते वाद्येव हेत्वाभासप्रयोगान्निग्राह्य इति"..
अत्रोच्यते उक्तमादावेव स्वपक्षे दोषमनुद्धृत्येति, एवं हि तेन वक्तव्यमनै. कान्तिकोऽयं हेतुरचौरे ऽपि पुरुषत्वदर्शनादिति एवं हि स दोष उद्धृतो भवति एवं त्वनभिधाय भवानपि चौरः पुरुषत्वादिति वदन्ननुजानात्येव परमतमतो ऽनैकान्तिकत्वे वक्तव्ये तदुद्भावनानुक्रममवधीर्य प्रसङ्गमापादयन्निग्रहाहों भव. त्येवेति, वादिनश्वानकान्तिकहेतुप्रयोगे ऽपि तदनुद्भावनान्न पराजयः प्रतिवादिन एव हीदं सन्निकृष्टं निग्रहस्थानमिति ।।
पर्यनुयोज्योपेक्षणस्य लक्षणम् -- निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥
गौ. अ. ५ आ. २ सू. २२ पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः इदं ते निप्रहस्थानमुपनतमतो निगृहोतोऽसीत्येवं वचनीयः तं य उपेक्षते नानुयुङ्क्ते स पर्यनुयुज्योपेक्षणान्निगृहाते । ____ "अत्राह कः कस्येदं निग्रहस्थानमापादयति किं पर्यनुयोज्य उत तदुपेक्षकः, उपेक्षकस्तावदस्य पर्यनुयोज्यतां न जानाति जानन्वा कथमेनमुपेक्षेत उपेक्ष्य वा किमात्मन एव निग्रहस्थानमुद्भावयन्नेवमाचष्टामेष पर्यनुयोज्यो ऽपि मयों. पेक्षित इति निगृहीतो ऽस्मि, पर्यनुयोज्यो ऽपि कथमात्मीयमवयं प्रकाशयेदि. दं मे दूषणं तश्च भवता नानावितमवो भवान् जित इति, स खल्वेवमभिध. दमेध्यं पाणी निधाय परं कलङ्कयितुकामः परं कलङ्कयन्नेवात्मकलङ्कमनुभवत्येवे.