SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ २०४ লাজা रसंग्रहविवक्षया द्वे एव निग्रहस्थाने विप्रतिपत्तिरप्रतिपत्तिश्चेति, इतरेतरविसहशोदाहरणदिकप्रदर्शनाय द्वाविंशतिभेदत्वमुच्यत, अवान्तरविशेषस्तु त. दानन्त्यमभ्युपगम्यते एव, तथा च द्वाविंशतिवर्गे हेत्वाभासाश्चेति पठितम् , से च स्वरूपेणैव तावत्पञ्च सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासा इति, अवान्तरभेदाश्च तेषामतिबहवः सन्त्येव, इह त्वेकमेव तन्निप्रहस्थानमादिष्टं हेत्वाभासाश्च यथोक्ता इति, तस्मादित्थं समासव्यासवर्णनादलं पदे पदे पर्यनुयोगेनेति । अप्रतिभाया लक्षणम्उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ अ. ५ आ. सू. १९ । परपक्षे गृहीते ऽपि तस्मिन्नुत्तराप्रतिभानमप्रतिभा नाम प्रतिवादिनो निप्र. हस्थानं भवति, अज्ञानादिभ्यो भिन्नता ऽस्य वर्णितेव, कीर्तिरिपि चैतदनुमन्य. व एव निग्रहस्थानन , “ननूत्तरमप्रतिपद्यमानः सदसि प्रतिवादी कथमासीत" यत्किंचिद्विकत्थमानः, तद्यथा.... हृत्पुण्डरीकविकसत्सकलानवद्यविद्यावदातवदनः क जनो ऽस्मदादिः । कायं बटुः कतिपयाक्षरलेशलिप्तजिह्वान्वितः कथमनेन सहाभिदध्मः ।। दानागन्धगजकुम्भकपाटभेदिभीमस्फुरन्नखशिखाशिखरः क सिंहः। कामी समीरणविधूतपुराणपर्णपातोद्भवद्भयविलोलहशः कुरङ्गाः ।। इत्यादि यद्वा तद्वा प्रलपन्नास्ते । विक्षेपस्य लक्षणम्कार्यव्यासङ्गारकथाविच्छेदो विक्षेपः ।। अ. ५ आ. २ मू. २० उग्राहणिकामुपक्रम्य वा तग्राहयितव्यं मयेति प्रतिश्रुत्य वाभिमुखं प्रतिवादिनि सन्निहितेषु प्राश्निकेषु कार्यव्यासङ्गं व्यपदिशतीदं मे करणीयमपहीयते गच्छामीत्यभिधाय कथां विच्छिनत्ति यः स विक्षेपेण पराजीयते, अन्यतरनिग्रहान्ता हि कथा भवति स चेत्थं कथां कुर्वन्नात्मनैवात्मानं निगृह्णाति, प्रतिश्यायेन मे कण्ठोपरोष उदपादि पदमपि वक्तुं न युज्यते जननी मे जीवितं जहाति स्म तां श्मशानभुवं प्रापय्य वह्निसात्करोमीति । "अत्राह यदि तावत्परमार्थत एव मातृमरणादि कार्यमस्योपस्थितं तत्किमिति तपस्वी पराजीयते, उग्राहणिकाजितो मा भूदिति किमसौ मृतां मातर मपि मा धाक्षीदिति महत्सुभाषितमिति, पीनसापरुद्धस्थानकरणो वा कथं वाचमुदीरयतु, अथासामर्थ्यस्थगनाय वितथमपि कथयति तथाविधमसौ कार्य. व्यासङ्गं तर्हि सत्यं निगृह्यते न तु विक्षेपेण किंतु अन्येनैव, वादी तावत्कर्तव्यव्याजव्यपदेशादर्थान्तरगमनादिना निगृह्यते प्रतिवादी त्वप्रतिभयैवेति, अ. तिप्रसङ्गश्चैवप्रकाराणां निर्देशे भवेदिति"
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy