________________
निग्रहस्थानप्रकरणम् । योगाथाडम्बरविरचनया ऽप्यान्थ्यमुत्पाद्य परानुपरुध्येतेति महत्कश्मलमेतत्, न चेदृशं शास्त्रे व्युत्पादनाहम , तस्मादहुकृत्वो ऽप्यभिधाय प्रतिवादी बोधयि. तव्यो न तु द्विरुच्चारितमप्रत्युचरन्निग्रहीतव्य इति"
अत्रोच्यते न खलु सकृदेव सकलमपरविरचितवचनसन्दर्भानुभाषणम. विचलितक्रमकमस्माभिरपि कर्तव्यतयोपदिष्टमपि तु यथोचितदूषणविषयानु. भाषणमात्रमेव ।
यस्तु स्तोकमप्यनुभाषितुमप्रगल्भस्तस्योत्तरप्रतिभानमपि नास्तीति यदुच्यते, सदसम्यक्, अन्यदननुभाषणमन्यदुत्तराप्रतिभानम् , कस्य चिदशेषमनुभा. षितवतोन मुच्यते ऽनेनोत्तराप्रतिभानम् , उत्तराप्रतिभानमनन्तरं वक्ष्यते ।
यत्त त्रिरुचारणपरिभाषा कुतस्त्येति विकल्पितं तदविज्ञातार्थनाम्नि निग्रहस्थाने प्रतिविहितम् , वीतरागकथात्मके वादे शिष्टादिभिः सह क्रियमाणे का. ममस्तु परावबोधावधि वाक्योचारणम् , जल्पे तु विजिगीषुकथायां पुरुषशक्ति. परीक्षणादवश्यमुच्चारणनियम आश्रयणीयः, तत्र सकृदा द्विवो ऽभिहितस्या. ग्रहणमनवधानादिनापि संभवन निग्रहाय कल्पते, त्रिरभिहितस्य तु सर्वरप्र. हणे वक्तुरेवापराधः, अन्यगृहीतस्य प्रतिवादिना ऽग्रहणे तस्य निग्रहः, वार. त्रयादप्यूर्ध्वमभिधाने त्वाश्रीयमाणे जल्पादो कथासमाप्तिरेव न स्यातू , छात्रशाला यसो भवेन्नोग्राहणिकं तदिति ।
अज्ञानस्य लक्षणम्अविज्ञानं चाऽज्ञानम् ॥ अ. ५ आ. २ सू. १८ परिषदा विज्ञातस्यापि वादिवाक्यस्य प्रतिवादिना यदविज्ञानं तदज्ञान नाम निग्रहस्थानं भवति, अविदितोत्तरविषयो हि कोत्तरं ब्रयादिति ।
अत्राह "अज्ञानमप्रतिभेति नानयोविशेष पश्यामः" -
अनोच्यते मिन्नविषयत्वाददोषः उत्तरविषयाप्रतिपत्तिरज्ञानम् उत्तराप्रति. पत्तिस्त्वप्रतिभेति ।
"ननत्तरविषयं यो न जानाति स उत्तरमपि न जानात्येव" मैवम् उत्तरविषयं जाननपि कश्चदुत्तरं न जानातीति लोकदृष्टमेतत् , एवं तहि अननुभाषणेन गतार्थमज्ञानमज्ञाते हि परकीये वाक्यार्थे तदनुभाषणे सामर्थ्याभावदर्शनात् , सन्ति हि के चिंधे ऽनुभाषितुमशक्नुवन्तः पत्रिकादिलिखितं तदावेदयन्तीति, एवं त्रयाणामपि च न पौनरुक्यम् , उत्तरविषयाप्रतिपत्तिरज्ञानम् , प्रतिपत्तावपि तदप्रत्युञ्चारणमननुभाषणम् , अनुभाषिते ऽप्युत्तराप्र. तिपत्तिरप्रतिभेति, __ "ननु यद्यज्ञानसाम्ये ऽपि विषयभेदमाश्रित्य निग्रहस्थाननानात्वमित्थमभिधीयते तद्यज्ञानप्रकारवैचित्र्यानेदान्तराण्यपि वक्तव्यानीति" उक्तमत्र सा.