________________
२०२.
न्यायमञ्जर्याम्
प्रतिज्ञाय जरूपं प्रवर्तयति स शब्दपुनरुक्तेनापि निगृह्यत इति, नियम्यवादिनश्च निग्रहात्ततेो ऽन्यस्य सम्यगश्रवणशङ्कया पुनर्वदता ऽपि न दोष:, अर्थाक्षिप्तकथनमपि कृतनियमस्यैव दोषो नान्यस्येत्यत एव न वादे निग्रहस्थानमिदम् अपि तु जल्पवितण्डयेोरेव विजिगीषुकथयस्तियोश्च सप्रयोजनत्वं कथान्तरत्वं च पुरा समर्थितमेव ।
"
यत्तु प्रतिज्ञेोच्चारणमर्थाक्षिप्तत्वात्तदनुवादश्च निगमनवचनमफलतरमिति, तदrयवलक्षणे विस्तरेण समाहितम् अधिकपुनरुक्तयोस्त्वयं विस्पष्ट एव. वि. शेषः अन्यं हेतुमभ्यं वा दृष्टान्तं तत्रैव साध्ये भिदधदधिकवादी भवति तमेव हेतुं दृष्टान्तं वा पुनर्वदन् पुनरुक्तवादीति, यत्त्वेवंविधविशेषाश्रयणे परिगणनमघटमानमिति तदवान्तरविशेषविवज्ञयैव सङ्कीर्णोदाहरणदर्शनाय द्वा. विंशतिनिर्देश इत्युक्तम् |
अननुभाषणस्य लक्षणम् -
विज्ञातस्य पर्षदा त्रिरभिहितस्याप्रत्युच्चारणपननुभाषणम् ॥ अ. ५ आ. २ सू. १७
पर्षदा विदितस्य वादिना त्रिरुच्चारितस्यापि यदप्रत्युच्चारणं तदननुभाषणं नाम निग्रहस्थानं भवति, अप्रत्युच्चारयन्किमाश्रयं दूषणमभिधीयते ।
" ननु यद्यनुभाष्यापि तत्रोत्तरं ब्रूयात्किमिति निगृह्यते न च यो भाषितुमसमर्थः स उत्तरमपि दातुमक्षमो भवति विचित्रत्वात्पुरुषशक्तीनाम् " नैतदेवम् अननुभाषणे तदुत्तरविषयापरिज्ञानात्कोत्तरं प्रयुज्येत प्रयुक्तं वा कथमवधार्यते, न चैवं ब्रमो यावत्किं चिद्वादिना सविकारमभिधीयते तदखिलमखिन्नानतिरिक्तमनुज्झितक्रमकमेकं प्रति वाप्रमी तथैवानुभाषेतेति यस्तु समस्तानुभाषणं तथा कुर्यादपि नाम तेन स्वकौशलमेव केवलमुपदर्शितं भवति मेधावित्वं न त्वेवमकुर्वन्नसौ प्रत्यवेयादिति, स्तोकस्तोकमनुभाषमाणः तथैव चक्रमेण दूषयन्न निग्रहमाप्नुयादिति ।
"अत्राह यदि वादी स्वपक्षसाधनविवरणवर्त्मना बहुतरमपरम प्रकृतमर्थमुपक्षिपेत्तत्किं प्रतिवादिना सर्वमनुभाषणीयम्, हेतुमात्रं त्वनूद्य दूषणमुद्भावयतो ना निग्रहो युक्तः, दूषणविषयं तु हेतुमात्रमपि यो अनुभाषितुमकौशलः स उत्तर विषयापरिज्ञानादुत्तरमपि प्रतिपत्तुमसमर्थ एवेत्यप्रतिभया निगृह्यतां कि. मननुभाषणेन, अपि च त्रिरभिहितस्येति केयं परिभाषा ? यथा च वादिना परावबोधार्थ वाक्यं प्रयुक्तं परोपद्रवार्थ वा तत्र परावबाधायें वाक्ये परावबोघ एवाभिधानावधिः न द्विस्त्रिर्वा नियमः यावत्कृत्वः प्रयुक्ते वाक्ये परस्यावबोधो जायते तावत्कृत्वः प्रयोक्तव्यम्, परोपद्रवार्थं तु वाक्योच्चारणमक्षत एवं धर्मः प्राश्निकान्यथा तथा सङ्केतेनापि बोधयित्वा दुःश्लिष्ट शब्दप्र