SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ निग्रहस्थानप्रकरणम् । २०. तदयुक्तमभ्युपगतनियमत्यागादसौ निग्रहाहों भवेत् , कश्चायं प्रतिपत्तिद्रढिमा ? प्रथमप्रयुक्तस्य हि हेतोरदृढप्रतिपत्तिकारिणो हेतुत्वमेव न स्यादुत्पन्नस्य प्रत्ययस्य पुनरुत्पादनं युक्तम् , तन्न पूर्वहेतुरढिम्ने नाप्युत्तरो द्रढिम्ने तस्मानियमाभ्युपगमे ऽधिकाभिधानं दोष एव, अपरं मतमकृतनियमस्यापि दोष एंव प्रपञ्चकथायामप्येकेन हेतुना दृष्टान्तेन वा कृते निर्णये द्वितीयस्य वैयर्थ्यम, निर्णीतस्य निर्णयानुपपत्तेरनिर्णयकारिणश्च प्रथमस्य हेतोः प्रयोगानह. स्वादिति । पुनर्वचनस्य लक्षणम्शब्दार्थयोः पुनर्वचनं पुनर्वचनमन्यत्रानुवादात् ॥ अ. ५ आ. २ सू. १४ __ अर्थदापन्नस्य स्वशब्देन पुनर्वचनं शब्दार्थस्य वाऽभिहितस्य पुनरभिधा. नं पुनरुक्तं नाम निग्रहस्थानं भवति, अनुवादं वर्जयित्वा शब्दपुनरुक्तं ताव चत्र पूर्वोच्चारित एव शब्दः पुनरुच्चार्यते यथा नियः शब्दो नित्यः शब्द इति, अर्थपुनरुक्तं तु यत्र सो ऽर्थः पूर्वमन्येन शब्देनोक्तः पर्यायान्तरेण पुनरुच्यते य. था नित्यः शब्दो निरोधधर्मको ध्वान इति, यद्यपि च शब्दपुनरुक्ते ऽप्यर्थपौन. हत्यमस्त्येव, तथा ऽपि शब्दपूर्वकस्वादर्थप्रत्यभिज्ञायाः प्रथमतरं शब्दप्रत्यभि. शानात्तत्पौनरुक्त्यमेव तदुच्यते, जात्यपेक्षश्च शब्दपोनरुक्त्यव्यवहारो न व्य. ज्यपेक्षः क्षणभङ्गित्वाद्वर्णानां पुनः प्रयोगासंभवात , अनुवादे तु पौनरुक्त्यमा दोषो यथा हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमिति, अर्थादापन्नस्यापि स्व. शब्देन पनर्वचनं भवत्येव पुनरुक्तं यथा असत्सु मेघेषु वृष्टिन भवतीत्युक्ते अथोदापद्यते सत्सु भवतीति किमर्थं स्वकण्ठेन पुनरुच्यते, अर्थप्रतीत्यर्थों हि शब्दप्रयोगः प्रतीते ऽर्थे किं तेनेति, एतच नियमाभ्युपगमे निग्रहस्थानं वेदित. व्यमकृतनियमस्य तु नातीव महानयमपराधः । . "अत्राह नार्थपुनरुक्तादन्यच्छब्दपौनरुक्तयमुपपद्यते शब्दसाम्येऽप्यर्थभेदद। शनात् , स्मरत गिरिशं गिरिशो गौरी यस्यासमस्मरद्वेषस्य इव यदीयस्य मुदा न गरीयस्या समस्मरद्वेषस्येति तस्मादर्थत एव पौनरुक्त्यं न शब्दतः, अपि च विस्तरकथासु कदा चनाश्रवणशङ्कया पुनरभिधानं नाम कियान्प्रमादः, अ. थोंदापन्नस्य च स्वशब्देन पुनर्वचनं यदि निग्रहस्थानमुच्यते तहि प्रतिज्ञावचनमेव प्रथमं निग्रहस्थानम्, अधिकपुनरुक्तयोर्वा विशेष इति वक्तव्यम् , यादृशं तादृशं च विशेषलेशमाश्रित्य पृथगभिधाने निप्रहस्थानभेदपरिगणनमशक्य. क्रियं स्यात् , अनुवादश्च य उच्यते हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमिति तत्तु प्रतिजैव तावदसाध्वी तस्याः पुनर्वचनं साधु भविष्यतीति केयं कथा" . अत्रोच्यते यदुक्तमर्थपुनरुक्तादन्यन्न शब्दपुनरुक्तमिति तदेवमेव, पृथङ्गि देंशम्त्वनया विवक्षया-यो हि शक्त्यतिशयचिख्यापयिषया सकृत्प्रयोक्तव्यमिति
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy