________________
२००
न्यायमअर्याम् क्ते घटार्थावगतिर्भवति वाक्येषु तु देवदत्त गामभ्याज दण्डेन दण्डेन शुक्लां गामभ्याज देवदत्तेति कमान्तरेणापि तथैवार्थप्रतिपत्तेः किं क्रमेण, अनुमान. वाक्ये तु पश्चावयवा इत्येतदेव तावत्प्रथममसांप्रतं प्रतिज्ञाधवयवानामसाधना. ङ्गवचनत्वात् , तत्र तेषां पञ्चावयवानामपि प्रयोगः प्रयोगे ऽपि च क्रमो विव. तितःतदुल्लङ्घनं निग्रहस्थानमिति महती मूर्खप्रक्रियेति" ... अत्रोच्यते वाक्यान्तरेषु क्रमापेक्षा भवतु मा वा भूद् नानेन न: प्रयोजन म् , अनुमानवाक्ये त्वार्थः क्रमो बलादापतति स्वप्रतिपत्त्यनुसारेण परप्रतिपतरुत्पादनात् स्वप्रतिपत्तौ च धर्मिदर्शनतद्गतहेतुधर्मावधारणप्रतिबन्धस्मरणपरा. मर्शज्ञानसाध्यनिश्चयानां क्रमण दर्शनात्परं प्रमाणतयैव तदभिधानं कर्तव्यमिति सविस्तरमवयवलक्षणे निर्णीतमेतत् , असाधनाङ्गवचनत्वमपि प्रतिज्ञा. पवयवानां तत्रैव निरस्तम् , अतः क्रमस्येह युक्तियुक्तत्वात्तदतिक्रमो भवस्येव निग्रहस्थानम् ।
न्यूनस्य लक्षणम्हीनमन्यतमेनाप्यवयवेन न्यूनम् ॥ अ. ५ आ. २. १२ । - पञ्चावयवे वाक्ये प्रयोक्तव्ये स्थिते तदन्यतमेनाप्यवयवेन हीनं प्रयुब्जानस्य न्यूनं नाम निग्रहस्थानं भवति । - "अत्राह प्रतिज्ञाद्यवयवजातमसाधनाङ्गवचनमित्यतस्तदनभिदधतो न निप्र. हः प्रत्युत तद्वतो निग्रहो युक्त इति"
अत्रोच्यते अनन्तरमेवैतत्परिहृतं विस्तरतश्चावयवलक्षणे, तथा हि श्रो. तुराकाङ्क्षानिवृत्तये ऽनुमानवाक्यं प्रयुज्यते,प्रथमंतदाकाङ्क्षाविषयः साध्यधर्मविशिष्टोधर्मी प्रदश्यते, ततः कारणाकाङ्क्षया हेतुवचनमभिधीयते, कास्य प्रति. बन्धो दृष्ट इति बुभुत्सायामुदाहरणमुपपाद्यते, इत्थमेष सिद्धप्रतिबन्धो हेतु. धर्मणि भवेन्नवेति शङ्कायामुपनयवचनमुच्चायते, तदनन्तरं सवोवयवानामेक. त्रोपसंहाराय निगमनं प्रयुज्यत इत्यन्यतमस्याप्रयोगान्निग्रहार्हता भवत्येवेत्यल मत्रैव वस्तुनि पदे पदे कलहप्रस्तावेनेति।
अधिकस्य लक्षणम्हेतूदाहरणाधिकमधिकम् ॥ अ. ५ आ. २ सू. १३ । एकेनैव हेतुना दृष्टान्तेन वा प्रतिपादिते ऽर्थे हेत्वन्तरं दृष्टान्तान्तरं वा प्र. शुखानस्याधिकं नाम निग्रहस्थानं भवति, एतच्च वादे तावद्वीतरागकथात्मके व. स्तुनि निर्णयफले नेष्यत एव, जल्पे ऽपि नियमाद्युपगमनेन वदतो वादिन इदं निग्रहस्थानम् , यो हि न मया साधनमधिकाभिधेयमुदाहरणं वेति नियमस्यो
ग्राहयति स एव तथा निगृह्यते नान्य इति, एतच्च कीर्तिना ऽप्येवं कथितं प्रप. ञ्चकथायां तु न दोष इति । .. "अपर आह नियमाभ्युपगमे नायं दोषः प्रतिपत्तिद्रढिम्ने तदभिधानादिति"