________________
२०८ - न्यायमचर्याम्
अत्रीच्यते सत्यमसिद्धो भवत्वयं कापिलकल्पितो हेतुः प्रकृतितद्विकृति. प्रश्नप्रक्रमणेनापि तदसिद्धमवधारयितुं शक्यत एव, किन्तु हेतुस्वरूपेऽवधारिते तदूषणमभिधानीयमनवधारितस्य दूषयितुमशक्यत्वादिति तत्प्रश्नो नार्थान्त. रगमनम् , प्रश्नोत्तरमेव भाषणः परामर्श निकटतरपरिस्फुरदपसिद्धान्ताभिधाननिबन्धननिग्रहान्तरविषयतां प्रतिपन्न इति हेत्वाभासवर्त्मनिन दूरंगम्यते ।
क चिदपि परनिग्रहस्य हेतौ हृदयपथं प्रथमं किलावतीर्णे। अपरमपि न कारणं विचिन्त्यं किमिव फलं खलु पिष्टपेषणस्य ।। हेवाभासाश्च यथोक्काः ॥ अ. ५ आ. २ सू. २५ हेत्वाभासास्तु पूर्वोक्तलक्षणैरेव लक्षिताः निग्रह थानतां यान्ति,यथोक्ता इत्यतो ऽब्रवीत् ॥ प्रमाणस्य प्रमेयत्वं प्रमेयस्य प्रमाणता। यथा लक्षणभेदेन न तथैतेषु दृश्यते । भेदेनोक्ताः किमर्थं त इति निगदिता पूर्वमेवात्र युक्ति. वादे ह्येते प्रयोज्याः प्रगुणनयविदा तस्वशुद्धिं विधातुम् । एतेषां धर्मकीर्तेरपि च न विमतिनिग्रहस्थानतायामित्थं द्वाविंशतिनों गुरुभिरभिहिता निग्रहस्थानभेदाः ॥
इति (१६) निग्रहस्थानपदार्थ: इत्येवं सूत्रकारोगममनुसरता ऽनुज्झता भाष्यभूमि स्थाने स्थाने परेषां मतमतुलगति तिरवता तार्किकाणाम् । कां चिद्वाक्यार्थचर्चामपि विरचयता ऽनुक्रमेणावतीणीं निर्णीताः स्वे निबन्धे निपुणमिह मया षोडशैते पदार्थाः ।। न्यायोद्गारगभीरनिर्मलगिरा गौरीपतिस्तोषितो वादे येन किरीटिनेव समरे देवः किराताकृतिः । प्राप्तोदारवरस्ततः स जयति ज्ञानामृतप्रार्थना. नाम्ना ऽनेकमहर्षिमस्तकवलत्पादो ऽक्षपादो मुनिः ।। वादेष्वाप्तजयो जयन्त इति यः ख्यातः सतामग्रणीरन्वर्थो नववृत्तिकार इति यं शंसन्ति नान्ना बुधाः । सूनुव्योप्तदिगन्तरस्य यशसा चन्द्रस्य चन्द्रविषा चक्रे चन्द्रकलावचूलचरणध्यायी स धन्यां कृतिम् ।।
नमः शशिकलाकोटिकल्प्यमानाङ्करश्रिये ।
प्रपन्नजनसंकल्पकल्पवृक्षाय शंभवे ।। इति श्रीजयन्तभट्टकृतायां न्यायमञ्जयों द्वादशमाह्निकम् ॥ १२ ॥
समाप्ता चेयं न्यायमञ्जरी ॥