________________
सिदान्तप्रकरणम् ।
१२७ तु मूर्खपण्डितौ प्रकृतासङ्गतेस्तयोश्च सङ्गत्यभावात् , तयोर्यस्मिन्नर्थे भावस्व भावेऽभावात्मके वा बुद्धिसाम्यं-प्रयोज्यप्रयोजकमावव्यवस्थितसाध्यसाधनधर्माधिकरणत्वे साध्यव्यावृत्तिपूर्वकसाधनधर्मव्यावृत्ततायां वा तुल्यरूपा बुद्धिः स दृष्टान्तः, तस्य तथाविधधर्माधारत्वं तद्रहितस्वं वा लक्ष्यमाणान्मन्तव्यं, यथा चानुमानलक्षणे 'तत्पूर्वकमिति प्रतिबन्धग्रहणेापायमानं प्रतिपादितं तत्स्वरूपं त्ववयवलक्षणे निर्णीत'मुदाहरणसाधर्म्यात्साध्यसाधनं हेतुस्तथा वैधादिति, एवमिह वादिप्रतिवाविप्रसिद्धिमात्रं दृष्टान्तस्य दर्शितं, रूपं तु तस्य द्विवि. धमपि तत्रैव वक्ष्यते-'साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्त उदाहरणम् , तद्विपर्ययाद्वा विपरीतमिति' अनित्यः शब्दः कृतकत्वाद् यत्कृतकं तदनित्यं दृष्टं यथा घट इति साधर्म्यदृष्टान्तः, यत्पुनरनित्यं न भवति तत्कृतकमपि न भवत्येव यथा ऽऽकाश इति वैधर्म्यदृष्टाम्तः, यथोक्तलक्षणवैकल्यात्त दृष्टान्ताभासता इति ।
आभासभेदविभवात्कथयिष्यते तु तेषामुदाहरणलक्षणवाक्प्रसङ्गे । आभासता वचनदोषकृताऽपि काचिदस्तीति साऽवयवलक्षणएव वाद्या ।। द्विवियोऽपि च दृष्टान्तः सुदृष्टिभिर्यत्नतोऽधिगन्तव्यः । स हि निश्चलः फलनिधेरनुमानमहातरोः स्कन्धः ।।
इति (५)दृष्टान्तपदार्थः ॥ तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥
(गौ० अ० १ आ० १ मू० २६) तन्त्र्यतेऽनेन पदार्थस्थितिरिति तन्त्रं प्रमाणमुच्यते, अधिकरणमाश्रयः, तन्त्रमधिकरणं यस्य स तन्त्राधिकरणः प्रमाणमूल इत्यर्थः, अभ्युपगमः स्वीकारः तस्य संस्थितिरित्थम्भावब्यवस्था धर्मनियमः, इदमिति सामान्यनिर्देश इस्थमिति विशेषः, एवं च तन्त्राधिकरणाभ्युपगमसंस्थितिः प्रमाणमूलाभ्युपगमव्यवस्था सिद्धान्त इत्युक्ते प्रमाणमूलाभ्युपगमविषयीकृतः सामान्यविशेषवानर्थः सिद्धान्त इति सामान्यलक्षणमुक्तं भवति । अन्ये तु व्याचक्षते-त-त्रमितरेतरसंबद्धस्यार्थसमूहस्योपदेशः शास्त्रम्, अधिक्रियते इत्यधिकरणं पक्ष उच्यते, अभ्युपगमो यथोक्त एव, संस्थितिशब्दः प्रत्येकम भिसंबध्यते, तन्त्रसंस्थितिरधिकरणसंस्थितिरभ्युपगमसंस्थितिरित्यनेन तन्त्रनिर्देशसाम्यात्सर्वतन्त्रसिद्धान्तयोः सूचनमितराभ्यां पदाभ्यामुत्तरयोरधिकर. णाभ्युपगमसिद्धान्तयोः-इति, एतत्त्वपव्याख्यानम्, न ह्येवं सिद्धान्तचतुष्टया. नुगतं किंचित्सामान्यलक्षणमुक्तं भवति-न चेदं विभागाथै विशेलक्षणथै वा सूत्रम्, तत्प्रतिपादनम्योत्तरसूत्रैः करिष्यमाणत्वादुक्तस्य च पुनर्वचने प्रयोज