________________
१२६
न्यायमञ्जर्याम्
व्या । अथोंऽर्थ्यमान उच्यते न वस्तुरूप एव अभावस्यापि प्रयोजनत्वसम्भवात्, अधिकारोऽर्थस्य व्यवसाय:, यं यमर्थमाप्तव्यं हातव्यं वाधिकृत्य व्यवसाय प्रवर्तते तत्प्राप्तये परिहाराय वा चेष्टते पुरुषस्तत्प्रयोजनमिति, तच्च गौणमुख्यभेदेन द्विविधम्-मुख्यं सुखप्राप्तिदुःखपरिहारश्च तत्साधनं गौणम्, सुखसाधनमपि चन्दन घनसार महिलादि प्राप्तव्यत्वान्मुख्यत्वेन यदा विवक्षितं भवति तदा तदवाप्त्युपाये गौणता द्रष्टव्या ।
तच्च प्रयोजनं देशकालपुरुषदशाभेदादव्यवस्थितम्, तद्यथा प्रीष्मे मरुस्थले निशात मला निकरमिव किरति किरणाभिषेण पूषणि तृषातुरस्य तुषारकणोकरदन्तुरमम्बु परमं सुखसाधनं तदेव शिशिरे सकलजगत्कम्पकारिणि दारुणसमीरणशिथिलीकृतनीरेषु कश्मीरेषु श्लेष्मापचयजनितजठरशिखिनः खेदाय जायते, तम्मादनियत एवायं सुखदुःखसाधनभावा भावानाम्, यद्यपि च यदेकदा सुखसाधनमिति विदितमुपयुक्तमतिक्रान्तं वस्तु तथापि तज्जातीयत्व लिङ्गावधृतसुखसाधनभावे भावान्तरेऽपि प्रवर्तन्त एव तदर्थिनः ।
"ननु प्रयोजनस्य प्रवर्तकत्वमयुक्तं सदसद्विकल्पानुपपत्तेः - सत्वे कर्णनासादिवन्न तदर्था प्रवृत्तिरसत्त्वे तु खपुष्पादिवन्नतराम्” । नैष दोष:, ईप्साजिहासाविषयीकृतस्य प्रवर्तकत्वात्, न हि तत्खपुष्पादिवदसाध्यं नापि शिरः पाण्यादिवसिद्धमेव अपि तु साध्यत्वेन बुद्ध्युपारूढं तत्प्रवर्तकमिति युक्तम्, तदेव च वाक्यार्थ इति पूर्वमुक्तम् ।
इत्थं प्रवर्तकत्वे प्रयोजनस्योपपादिते मुनिना । भग्ना भवन्ति सर्वे प्रेरकपक्षाः पराभिहिताः ॥ प्रयोजनमतोऽखिलैर्विधिवचोभिरादिश्यते प्रयोजननिबन्धनास्तनुभृतामशेषाः क्रियाः । क्रिमेरपि यथा तथा किमपि जीवितं बिभ्रतः प्रयोजन बहिष्कृतं न खलु चेष्टितं दृश्यते ॥ वैतडिकः प्रयतते निजपक्षसिद्धयै तां चैष वेद परपक्षनिषेधलभ्याम् । तस्मादियं स्वमतसाधनवर्जिताऽपि युक्त प्रयोजनवती भवितुं वितण्डा ॥ इति (४) प्रयोजन पदार्थः ॥
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ॥ गौतमसूत्रम् अ० १ ० १ सू०२५ ।
लौकिकपरीक्षकौ वादिप्रतिवादिनौ दृष्टान्त प्रस्तावलक्षणाद्वेदितव्यौ न