________________
संशयप्रकरणम् ।
१२५
उपलब्ध्यव्यवस्थातः खल्वयं भवति संशयः, सच्चोदकमुपलभ्यते यथा हृदादिषु कचिदसच भास्करकरनिकरप्रतिफलतरलितासु मरुस्थलीषु, तदेवमुपलब्धेर. व्यवस्थितत्वात् क्वचिदुपलभ्यमाने भवति संशयः-'किमिदं सदुपलभ्यते किमसंदिति, अनुपलब्ध्यव्यवस्थातश्च भवति संशयः-'किंचिदसदेव नोपलभ्यते नभःकुसुमादि किंचित्सदपि नोपलभ्यते मृदन्तरितशङ्खमूलकादितदन्यत्रानुपलभ्यमाने संशेते पुमान्किमिदमसदेव नोपलभ्येते उत सदिति' अव्यवस्थाशब्देनात्र पूर्व पयोयेण वृत्तसदसदाश्रितविशेषादर्शनं सूचितम्, इदानीं पु. नरर्थक्रियासमर्थतादिविशेषदर्शनशून्यचेतसामुपलब्ध्यनुपलब्ध्यदर्शनमात्रोपपत्ते. संशयो वय॑ते, न चैवं सति सर्वत्रानाश्वास इति शङ्कनीयम् , यथानुभवं संशयाभ्युपगमात् , सर्वत्र च तदुत्पादकविशेषाग्रहणतत्स्मरणादिकारणसान्निध्या. संभवादिति, अत्रापि पदत्रयेणेकेन वा पदेन लक्षणोपपादनं पूर्ववद् द्रष्टव्यम्। "ननु चोपलब्ध्यनुपलब्धी सदसतोः समान एव धर्म इति पूर्वेण गतार्थत्वम्" नेतत् पूर्वनिर्दिष्टस्योर्ध्वत्वादेर्धर्मस्य शेयस्थत्वादुपलब्ध्यनुपलब्ध्योश्च ज्ञातृस्थ'त्वात, अत एव च मानसमिमं संशयमाचक्षते न बायधमिसंबद्धसाधारणोवतादिधोधिगमाधीनसंशयवबाह्येन्द्रियजम् । “ननु चोपलब्धित्वमनुपलब्धित्वं बाऽत्र संशयकारणं तद्धि न ज्ञातरि वर्तते किन्तु बुद्धाविति कथमयं विशेषः ?" सत्यमेवं किन्तु समानधर्मोप्युपलब्धितादिको यदाश्रितो तद्धि बोद्धरि वर्तते अतो विशेषात्पृथगेव कथ्यते यथा ह्यसाधारणतासमाश्रयः, एवंप्रकारमेव च विशेषमाश्रित्य किश्चित्पञ्चविधत्वं विपञ्चयते, परमार्थतस्तु सर्वत्रानुगतसंबन्धो दुष्परिहरः विशेषस्मरणजन्यत्वात्संशयस्य विशेषाणां च येन सह पूर्व दर्शनमभूत्तस्मिन्ननुपलभ्यमाने स्मरणासंभवात् , अतस्तस्यानेकविशेषानुगामित्वात्स. मानत्वात्समानत्वमपरिहार्यम् , अत एवाक्षिप्तसामान्यवाचिसमानशब्दं सामा. न्यलक्षणे व्याचख्युराचार्या इत्यलमतिविस्तरेण ।
इति पञ्चविधः प्रपञ्चतो मुनिना दर्शित एष संशयः । फलवद्यवहारहेतुतामनुमानाङ्गतया बिभर्ति यः॥ अनुमानिरपेक्ष एव वा किल दृष्टे विषयेऽर्थसंशयः। वहति व्यवहारबत्तिनीमिति पूर्व च विचारितं बुधैः।
इति(३) संशयपदार्थः। यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ।।
(गौ० अ० १ आ० १ सू० २४) 'यमि'त्यत्र देशकालपुरुषदशाभेदभिन्नप्रयोजनविशेषव्याप्तये वीप्सा द्रष्ट