SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ १२४ न्यायममयाम् गयोरेकत्र युगदुपलब्धिर्भवेन्न चैवमस्ति, तस्मात्संयोगाभावविषय एव विभ. क्तप्रत्यय इति न विभागालम्बनतां प्रतिपद्यते, सत्यपि विभागे तस्मिन्क्षणे संयोगस्य विनाशान्न भवति विभक्तप्रतिभासः , क्षणान्तरे च संयोगविनाशे सति भवतीत्यन्वयव्यतिरेकाभ्यां संयोगामावविषय एवावसीयते न प्रत्यक्षगम्यता विभागस्य , संयोगभङ्गलिङ्गन च तत्परिकल्पनक्रियैव तं हिनस्तीति पुरस्तात्प्रतिपादितम् । ___"कथं तर्हि विभागजत्वं शब्दस्य भाष्यकार उदाहृतवान् ?" उच्यते त्रिविधं. कारणं कार्योत्पत्तिं विधत्ते-समवायिकारणम् असमवायिकारणं निमित्तकारणं चेति, तत्र समवायिकारणं तदुच्यते यत्राश्रितं कार्यमुपलभ्यते यथा पटस्य तन्त. वः,असमवायिकारणन्तु द्विविधं कार्थकार्थसमवायलक्षणप्रत्त्यासत्त्या प्रत्यासन्न कारणैकार्थसमवायलक्षणया वा, तत्र कार्यकार्थसमवायेन प्रत्यासन्नं यथा पटस्य तन्तुसंयोगः, कारणैकार्थसमवायेन तु प्रत्यासन्नं यथा पटरूपस्य तन्तुरूपमिति, अवधृतसामर्थ्य च तदसमवायिकारणमाश्रयणीयमतो बुद्धिजन्मनि सत्यप्येकार्थसमवाये नान्येषामात्मगुणानामिच्छादीनामसमवायिकारणत्वमपि त्व. वधृतसामर्थ्यस्यात्ममनःसंयोगस्यैवेति, समवाय्यसमवायिव्यतिरिक्तं तु कार्योत्पत्तौ नितिसामध्ये यत्कारणं तनिमित्तकारणमुच्यते,-इत्येवं स्थिते शब्दस्य नित्यत्वे निरस्ते कार्यत्वे च साधिते तदुत्पत्तौ आकाशं समवायिकारणं निमित्तकारणानि तु भूयांसि सन्त्येवासमवायिकारणं तु चिन्त्यम्, तच्चाकाशाश्रितमवश्यमन्यथा प्रत्यासत्यभावात् तद्गुणान्तराणां च विभुत्वादीनामनवधृतश. क्तित्वाद्वंशदलपाटनसमनन्तरं च शब्दोत्पाददर्शनादेवं मन्यामहे क्रिया यदैव संयोग हन्ति वंशदलाश्रितम् । तदेव गगने कश्चित्करोत्यतिशयं ध्रुवम् ॥ आकाशातिशयो यश्च क्रियाजः शब्दकारणम् । असौ विभागनामेति शब्दे तज्जन्यतोच्यते ॥ तदेवमेतद्यथागममाचार्यमतमभिहितमस्माभिः । एतच मतिमद्भिर्विचारणी. यम्-किमाकाशातिशयमात्रमसमवायिकारणमुत यथा भेरोदण्डसंयोगकार्ये शब्दे भेरीगगनसंयोगस्यासमवायिकारणत्वमेवं वंशदलविभागकार्ये तस्मिन्दलगगन विभागस्येति, दलाकाशविभागोऽपि किं दलविभागज उत कर्मण एवेति, सर्वथा कश्चिदसाधारणो धर्मः संशयहेतुरुदाहर्तव्य इतीयता नः प्रयोजनम् । विरुद्धा प्रतिपत्तिविप्रतिपत्तिः, अस्त्यात्मेत्येके नास्त्यात्मेत्यपरे, सेयं विप्रतिपत्तिरुपलभ्यमाना विशेषस्मरणद्वारेण संशयमावहति, न चेह कश्चिदनुगतो व्यावृत्तो बा धर्मः संशयकारणमपि तु विप्रतिपत्तिरेवेति, अत्रापि त्रिरूपपरि. ग्रहेण लक्षणवर्णनमेकेनैव वा पदेनेति पूर्ववदाचार्यद्वयमतमनुसरणीयम् ।
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy