________________
संशयप्रकरणम् ।
कर्म धुत्तरसंयोगनिमित्तं यदुपेयते । तदेव पूर्वसंयोगध्वंसकारि भविष्यति ।। न च यज्जनने शक्तमशक्तं तद्विनाशने।
हेतुर्दहनसंयोगः पाकजोत्पादनाशयोः ।। यथा च विभागेऽधिकरणनियमो यदाधारो विभागस्तदाधारमेव संयोगं निरुणद्धि तथा कर्मण्यपि नियमः कर्मापि स्वाश्रयस्य यदन्यदिक्सम्बन्धनिबन्धनं तत्तद्विरुद्धदिग्वृत्तेः संयोगस्योपमर्दकमिति नातिप्रसङ्गः, एवं कर्माविष्टस्योत्तरसंयोगदर्शनमदूषणं दिगन्तसंयोगस्य तेनोपमर्दनात् , अपि च यदेव कर्म वंशदलविभागकारि कथ्यते तदेव दलाकाशविभागकारि भविष्यति को दोषः ।। ___ "ननु व्योमविभागकारिकर्म न द्रव्यारम्भकसंयोगप्रत्यनीकभूतविभागार• म्भकमम्भोरुहपल्लवकर्मवदि"त्युक्तम् , सत्युमुक्तम् , अयुक्तं तु शतपत्रपत्रकर्मणो ऽपि द्रव्यारम्भकसंयोगप्रतिकूलविभागारम्भकत्वात्तच्च कुड्मलकमलाद्विकचक कलस्यान्यत्वनिश्चयानिश्चितम् ।
"ननु तदेवेदमरविन्दमिति सन्देहविपर्ययरहिततामरसप्रत्यभिज्ञादर्शनात्कथं सङ्कोचविकासदशामात्रभेदात्तदन्यत्वमि"ति, कृतमनया दुराशया शरीरेऽपि सुस्पष्टोपलभ्यमानशैशवयौवनवार्धकादिदशाभेदभिन्नस्वरूपे प्रत्यभिज्ञानदर्शनात् , न च शरीरकुशेशयोविशेषलेशमपि पश्याम इति कुतस्तदेकत्वम् , भवतु वा पुण्डरीकस्याविनाशो निदर्शनमात्रमिदं तु वर्णितं न तु प्रतिबन्धः (द्धः ?) कश्चन हेतुरभ्यधायि, येन वंशदलकर्मणः कोकनदपल्लवकर्मसाम्यं कल्प्येत, क्रियात्वं त्वप्रयोजकमेव कर्मणां विचित्रकार्यहेतुत्वात् , यदि वा नान्यो वंशद. लविभागो नान्यश्च तत्कार्यो दलाकाशविभागः, किन्तु
एक एव विभागोऽयं भेदोऽस्याश्रयभेदतः । एकत्र देशेऽवस्थानाधोम्नो वंशदलस्य च ॥ समानदेशे वृत्तित्वं मूर्तानां हि विरुद्ध्यते । व्योम्नः सर्वगतत्वात्त विद्यते तत्र सन्निधिः ।। एकदेशाश्रयत्वे तु यदेकस्माद्विभागकृत् । तदेवान्यत इत्यस्ति न विभागो विभागजः ।।
प्रासाङ्गेको विभागगुणान्तरत्वनिरासः ।. अपरे पुनर्विभागजविभागपराकरणेपासढरभसाः सनिरन्ते-तिष्ठतु तावद् दूरत एव विभागजो विभागः, कर्मजोऽपि न विभागो नाम कश्चिदस्ति, संयोग विरोधिनि तस्मिन्नभ्युपगम्यमाने मुद्गरादिवत्पूर्वसिद्धताऽवश्यंभाविनी ततश्च पूर्वसिद्धो विभागः संयोगमुन्मूलयतीति घटमुद्गरयोरिव संयोगविभा.