________________
१२२
न्यायमञ्जर्याम्
वतन्तुविभागात्तन्त्वाकाशविभागः, कारणाकारणविभागपूर्वकस्त्वङ्गुल्याकाशविभागाद्धस्ताकाशविभागो हस्ताकाशविभागादपि शरीराकाशविभाग इति, शब्दस्तु नियमेनैव कारणविभागपूर्वक विभागप्रभवः वंशदल विभागाद्दला काशविभागो दलाकाशविभागाश्च समवायिकारणाच्छन्दो निष्पद्यते इत्यनेन विशेषेणास्येदृशविभागजत्वस्यासाधारणत्वं शब्दधर्मस्योच्यते इति ।
प्रासङ्गिकं विभागजविभागखण्डनम् ।
अन्ये तु विभाग विभागममृष्यमाणा यथाश्रुतस्यैव शब्दे विभागजत्वस्यासाधारणधर्मतामाचक्षते ।
"ननु किमिति विभागजं ते विभागं न मृष्यन्ति ? अस्ति ह्ययं तत्सिद्धौ न्यायः-यदा ह्यवयये कर्मोत्पन्नमवयवान्तराद्विभागं करोति न तदाकाशादिदेशायदा त्वाकाशादिदेशान्न तदाऽवयवान्तरादिति स्थितिः, किंकृता पुनरियं स्थितिरिति चेत्, उच्यते-या ह्यवयवक्रिया नभोविभागकारिणी नासौ द्रव्यारम्भकसंयोगप्रतिपक्षभूतं विभागमारभमाणा दृश्यते दिनकरकिरणपरामशौपजनितकमलदलविकासकारिक्रियावत्, तदेव कथमिति चेत्, कमलस्य मुकुलविकासदशयोः प्रत्यभिज्ञायमानत्वेनाविनाशनिश्चयात्, इयन्तु पाट्यमानवंशदलक्रिया द्रव्यारम्भकसंयोग प्रतिद्वन्द्विभूतविभागारम्भिकोपलभ्यते इति
नभसो विभागमारभेतेत्यत एषा स्थितिरस्तीति विभागजविभागकल्पना क्रियते, संयोगान्तं कर्मेति (च) तावत्स्थितम्, अन्यथा हि तस्य कालान्तरस्थाः यित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात्, तस्मात्कर्मणोऽचिरजीवित्वात्तद्विनाशकेन संयोगेन भवितव्यम्, उत्तरश्च संयोगः पूर्व संयोगोपर मे सति जायते नान्यथा, न च विभागव्यतिरिक्तः कश्चन संयोगस्य हन्ता समस्ति, कर्म तूत्तरसंयोग जन्मनिर्ज्ञात कौशलम् । न हि प्राक्तनसंयोगविनाशाय प्रकल्पते ॥
तस्माद्विभागेनैव संयोगनाशकारिणा भाव्यम्, स च यदधिकरणो विभागस्तदधिकरणमेव संयोगमुपशमयति न त्वङ्गुलिविभागः कुण्डबदर संयोगोपमर्दाय प्रभवतीत्यतो न वंशदलवृत्तिर्विभागो दलाकाशसंयोगमपहन्तुमलमिति नूनं द. लाकाशसंयोगेन भवितव्यम्, तदिदानीं तस्योत्पत्तिकारणचिन्तायां क्रियाया वंशदलविभागमात्रोपजनने चरितार्थत्वात्तं निर्माय विभागान्तरनिर्माणे विरम्य व्यापारासंवेदनादवश्यं वंशदलविभाग एव प्रत्यासन्नतया दलाकाशविभागार म्भकोऽभ्युपगमनीयः एवमनभ्युगमे कर्मनित्यत्वप्रसङ्गादि"ति ।
वदन्ति न कर्मनित्यत्वमनभ्युपगम्यमानेऽपि विभागजे विभागे भविष्यत्युत्तरसंयोगस्य कर्मविनाशहेतोरस्तित्वात् । “पूर्वसंयोगानुपरमे कथं तदुत्पाद” इति चेद्, बाढमुपरत एव पूर्वसंयोगः, “कस्तस्योपर महेतुरिति चेत्,