SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ संशयप्रकरणम् । पूर्ववदत्रापि दर्शयितव्यम् , न चेन्द्रियमनःसंयोगादिकारणान्तरपरिगणन. चोदनं युक्तम् , तेषां सर्वबुद्धिजन्मसु तुल्यत्वादिहासाधारणसंशयज्ञानकारणोपदेशप्रस्तावादिति । अन्ये तु सामान्यलक्षणसमुत्पादित विजातीयव्यवच्छेदे केवलसजातीयव्यव. च्छिन्नलक्षणप्रतिपादननिपुणमनेकधर्मोपपत्तिरूपमेव पूर्ववद्वर्णयाचक्रुः । "नन्वनेकधर्मशब्देन कथमसाधारणोधर्म उच्यते" समानजातीयमसमान. जातीयमनेकं तस्मात्परावृत्तोधर्मोऽनेकधर्म इति, यद्वा किमनया क्लिष्टकल्पनया, अस्त्ययमेकशब्दः समानपर्यायस्तत्र स्पष्ट एव नसमासेनासमानधर्मोऽनेकधर्मः साधारणधर्म उच्यते एवेति । __"भवत्वेवमसाधारणधर्मस्य तु कथं संशयकारणत्वमिति चिन्त्यम, विरु. द्धविशेषानुस्मरणकारणकं हि संशयमाहः, विशेषाणां च स्मरणहेतोः संस्का. रस्य तद्बोधकं भवति येन सहैते पूर्वपर्यायेणोपलब्धाः, असाधारणध. मस्य त्वसाधारणधर्मत्वादेव न केनचित्सह पूर्व दर्शनमभवद्भावे त्वसाधारणधर्मतैव ह्रीयेतेत्यतः कथमसौ तस्मतिहेतुः, व्यावृत्ततयैव तु स्मतिहेतुत्वेऽस्य त्रैलोक्यस्मरणनिमित्तता प्रसज्येत ततोऽपि व्यावृत्तत्वादिति । __ नैष दोषः, प्रकारान्तरेणास्य स्मृतिहेतुत्वात् , इह हि केषुचित्केषुचिदसा. धारणधर्मा धर्मान्तरसहचरिता भवन्ति, तद्यथा पृथ्वीत्वगन्धवत्त्वादयो धर्माः पृथिव्यामसाधारणास्सन्तः स्नेहवत्त्वादिधर्माश्च तथैवाप्सु द्रव्यत्वसहचारिणो दृष्टाः, रूपादिषु रूपत्वादिधर्मा गुणत्वसहचारिणः, उत्क्षेपणादिषु उत्क्षेपणत्वा. दिधर्माः कर्मत्वसहचारिणः , एवं प्रकृतेऽपि धर्मिणि कस्मिंश्चित्कश्चिदसाधारणो धर्म उपलभ्यमानः केनापि साधारणधर्मान्तरेण सहचरितो भवेदिति विशेषानुस्मृतिद्वारेण संशयसाधनम् । "नन्वेवं तर्हि व्यावृत्तत्त्वादेव समानधर्मादेष संशयो नानेकधर्मादि"ति, मै. वम , अनेकधर्म एवासौ तेन वर्मना विशेषान्स्मारयन्संशयजन्मने कल्पते , सति हि तस्मिन्किमालम्बनं व्यावृत्तत्वं स्यादित्यलमतिसूक्ष्मेक्षिकया। तस्योदाहरणं भाष्यकारेण दर्शितं शब्दे विभागजत्वम् , यथा हि पृथिव्यादौ पृथिवीत्वादिः व्यावृत्तो धर्मो द्रव्यत्वाद्यनुगतधर्मसहचारी दृष्ट एवं शब्दे विभा. गजत्वं धर्मः केन द्रव्यत्वादीनामन्यतनेन धर्मेण सहचरितः स्यादिति संशयः । "विभागजत्वमसाधारणं न भवत्येव शब्दधर्मों विभागेऽपि भावात् , तथा च प्रयोग:--गुणः शब्दो विभागजत्वाद्विभागजविभागवद्" इति । तत्र केचिदाहुः, सत्यमस्ति विभागेऽपि विभागजत्वं, शब्दे तु विशेषो विवक्षितः, द्विविधो हि विभागजो विभाग:-कारणविभागपूर्वकः कारणाकारणविभागपूर्वकश्च, कारणं समवायिकारणमत्राभिप्रेतम् , कारणविभागपूर्वकस्ता
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy