________________
१२०
न्यायमअर्याम् न्तरे कालान्तरे वा चिरदृष्टानां विशेषाणामिदानीमग्रहणं संशयकारणं न वि. शेषाग्रहणमात्रम् , एवममुना पदत्रयेण संशयलक्षणमिदमक्तम् ॥ .. ननु च 'संभूय कारकैः कार्यमारभ्यते' इति न्यायात्समानधर्मोपलब्धिवि. शेषानुपलब्धितत्स्मृतिलक्षणकारणत्रयजन्ये संशये ज्ञानयोगपद्यमापद्यते, क्रमभावित्वे हि बुद्धीनां नैककार्योत्पत्तौ युगपद्व्यापारः समस्ति, विशेषाश्च बहवोऽपि सम्भवन्तीति तत्स्मरणान्यपि युगपद्भयांसि भवेयुः।। . नैतदेवम् , समानधर्मग्रहणानन्तरं पर्वोपजातविविधविशेषानुभवपरम्परोपचितपीवरसंस्कारजमेव तद्विषयं स्मरणं भविष्यति यथा वर्णानामर्थप्रतीतो व. र्णितम् , उपलब्ध्यनुपलब्ध्यव्यवस्थापदसचिता च विशेषानुपलब्धिरेव न सा ज्ञानात्मिका किन्तु ज्ञानाऽनुत्पाद इति तत्ततीयं कारणमपि भवन्न ज्ञानात्मकम् , ज्ञानात्मके कारणे समानधर्मग्रहणं विशेषस्मरणं च, तयोः प्रथमं समानधर्मग्र. हणं विनश्यदवस्थं द्वितीयमविनश्यदवस्थं संशयमपजनयतः, ईदृशोश्च ज्ञानयो. यौंगपद्यमविरुद्धमिति शास्त्रे स्थितम् , एवं समानधर्मग्रहणाद्विशेषाग्रहणाद्विशेष. स्मतश्च संशय इति पदत्रयेण संशयलक्षणमनवद्यमुच्यते इति ।
सूत्रस्य व्याख्यान्तरम् । तदेतदाचार्यव्याख्यानमरोच्यन्तः परऽपरथा व्याचक्षते-समान्यलक्षणं तावद्विमर्शपदेनैव प्रतिपाद्यते, न हिपर्या योच्चारणमात्रमिदं विमर्शः संशय इति किन्तु संशय इति लक्ष्यपदं विमर्श इति लक्षणप्रवणपदम् , प्रमाणपदवच्च निर्वः चनसव्यपेक्षमेतत्पदं लक्षणप्रतिपादनक्षम भवति, विरुद्धार्थावमझे विमर्श: स्थाणुर्वा पुरुषो वेति, इयता च सजातीयसंशयपञ्चकानुगतं विजातीयेभ्यः प्रमा. णादिभ्या व्यवच्छिन्नं सामान्यलक्षणमुक्तं भवति, संशयोत्पादककारणपरि. गणनं पुनरिन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिहापि नोपयुज्यते कारणान्तराणाम. प्यात्ममनःसन्निकर्षादीनामपरिहार्यत्वात्-(इति?)। अत्राप्यसाधारणकारणनिर्देश श्चिकीर्षितस्तेनापि कोऽर्थः? सामान्यलक्षणस्य प्रतिपिपादयिषितत्वात्तस्य च वि. मर्षपदादेव सिद्धत्वात् , उपलब्ध्यनुपलब्ध्यव्यवस्थापदप्रतिपाद्यमानविशेषाग्रहण वर्णनं चातीव क्लिष्टमिति पुनश्च विशेषलक्षणाप्रसङ्ग यथाश्रुतमेव तद् व्याख्ये यमित्यतिभारः, एवं विमर्शपदेन विजातीयव्यवच्छेदकारिणि सामान्यलक्षणे वणिते समानधर्मोपपत्तरित्येकमेव पदं सजातीयसंशयान्तरव्यवच्छेदकारि विशेषलक्षणक्षमं भवतीति तत्रापि पदत्रययोजनं नोपयुज्यते इति , अत्र व्या. ख्यानद्वयेऽपि कतरत्साध्विति तद्विदः प्रमाणम् । __अनेकधर्मोपपपत्तेरित्यत्रापि त्रिपदपरिग्रहेणेनैव लक्षणमाचार्या वर्णयन्ति अनेकधर्मोपपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इत्यसाधारणधर्भ प्रहणाद्विशेषाग्रहणाद्विशवस्मृतेश्च संशय इत्यर्थः , एकैकपदोपादानफलं च