________________
संशयप्रकरणम् ।
११४ प्रतिपस्यात्मकं वा आन्तरमुपलभ्यनुपलब्ध्यव्यवस्थारूपं वेत्येवमाक्षिप्तसामान्यवाचिनि समानशब्दे पञ्चसाधारणरूपावगमात्सामान्यलक्षणार्थता, यदा त्व. नुगतमेव धर्ममारोहपरिणाहादिस्वभावमाचष्टे समानशब्दस्तदा विशेषल. क्षणार्थ इति। ___ सत्र चेत्थं सूत्रयोजना-समानो धर्मः परिणाहादिः तस्य गुणत्वेन प्रति. द्रव्यमन्यत्वे ऽपि तुल्यरूपावगतिविषयीकृतत्वात्समानत्वमुच्यते तस्योपलब्धि. रुपपत्तिः, अथापि सत्तोपपत्तिशब्देनोच्यते साऽप्युपलब्ध्यधीनस्थितिरेव भव. तीति सर्वथा समानधर्मोपलब्धेः संशय इत्युक्तं भवति ।
ननु समानधर्मोऽथान्तरं धर्मिणो न चाऽर्थान्तरे दृष्टेऽन्यत्र संशयो भवितु. मर्हति, नार्थान्तरविशेषत्वात् , अर्थान्तरविशेषस्तु धयॆवोच्यते ऽर्थान्तरेण परिणाहादिना विशेष्यत इति तस्मिन्नेव साधारणधर्माध्यासितवपुषि धर्मिणि नयनपथवतिनि तद्गतविशेषावमशात्मा तत्रैव संशयो जायते योऽयमूर्खत्वविशिष्टधर्मा दृश्यते स स्थाणुर्वा स्यात्पुरुषो वेति नार्थान्तरत्वदूषणम् , तथाऽपि वक्रको. टरकरचरणादिविशेषदशिनो न दृष्टः संशय इति कारणान्तरमुच्यते,-उपलब्ध्यनुपलब्ध्यव्यवस्थात इति, अनेन (कथं?) विशेषाग्रहणमुच्यते, इत्थमुच्यते-इद. न्तया:ऽनिदन्तया वा तत्रोपलब्धिर्न व्यवतिष्ठते अनुपब्धिति, विशेषग्रहणे सति तद्वयवस्थानं सम्भवति, स्थाणुरयं न पुरुष इति वक्रकोटरादिविशेषग्रहणे, शिरःपाण्यादिपरिच्छेदे तु पुरुषोऽयं न स्थाणुरिति, एवमनेन पदेन विशेषग्रहणमुक्तम् , तथाऽपि प्रेङ्खारूढस्य साधारणधर्मदर्शिनो विशेषाननुपलभमानस्यापि न दृष्टः संशय इति कारणान्तरमुच्यते-विशेषापेक्ष इति, विशेषस्मृत्यपेक्ष इत्यर्थः।
ननु विशेषापेक्ष इति श्रूयते न विशेषस्मृत्यपेक्ष इति, सत्यमश्रूयमाणमपि तत्स्मरणं संशयप्रस्तावादवगम्यते, स्मर्यमाणत्वेन हि विशेषाणां संशयोत्पत्ता. वपेक्षा नानुभूयमानतया ऽनुभूयमानेषु हि तेषु संशयच्छेदो भवति न संशयः, अपेक्षाशब्दार्थनिरूपणादेव वा स्मृतिलभ्यते विशेषाणामपेक्षा आकाक्षा ते चानुपलभ्यमानाः पूर्वानुभूताश्चाकावयन्ते इतीयं सा तेषां स्मृतिः, संप्रत्यपल. भ्यमानेष्वेकान्ताननुभूतेषु.वा तेष्वाकाङ्क्षानुपपत्तेः।
ननु समानधर्मोपपत्तविशेषस्मृतेश्चेति कारणद्वयमेवास्तु किं विशेषाग्र. हणेन, अपि च
विशेषस्मरणादेव नन्वाक्षिप्तस्तदग्रहः ।
ग्रहणं स्मरणं चैव भवेतां युगपत्कथम् ॥ किन्तु नातिदूरगतायां निजप्रमदायामनुरागवतः कामिनः समानधर्मदर्शने तगतविशेषादर्शने तदनुस्मरणे च सत्यपि न भवत्येव संशयोऽतः संशयोत्प. न्स्यव्यभिचारे देशकालव्यवहितविशेषाग्रहणसिद्धये पदान्तरमपादीयते देशा.