SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ • न्यायमञ्जर्याम् संशयलक्षणम् संशयादेः पदार्थगणस्य प्रमाणप्रमेयपदसंगृहीतस्यापि न्यायप्रवृत्तिप्रयोज - नतया पृथग्व्युत्पादनीयत्वस्य प्रागेव समर्थितत्वात्प्रथमसूत्रे च प्रमेयानन्तरं संशयोद्देशादुद्देशानुक्रमेण तस्य लक्षणं प्रतिपादयितुमाह ११८ समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ॥ ( गौ० अ० १ आ १ सू० २३ ) ननु संशयस्य समानधर्मोपपत्त्यादिकारणभेदेन पञ्चविधत्वात्सामान्यलक्षणं. विभागो विशेषलक्षणानि च वक्तव्यानि, तत्र सामान्यलक्षणे विभागे च सूत्रद्वयं विशेषलक्षणार्थं च पञ्चानां तत्प्रभेदानां सूत्रपञ्चकमित्येवं सप्त सूत्राणि प्रणेतुं युक्तानि एकं चेदं सूत्रं श्रूयते तत्कथमेतद्भविष्यति ? उच्यते, सत्यमाह भवान् किन्त्वेकमेवेदं सूत्रमावृत्तिन्यायमाश्रित्य सप्तधा कल्पयिष्यते । आचार्यव्याख्यानम् । तत्राचार्यास्तावदेवमाचक्षते समानधर्मोपपत्तेरुपलब्ध्यनुपलब्धिव्यवस्थातो विशेषापेक्षो विमर्शः संशयः इतीयत्सूत्रं सामान्यलक्षणप्रतिपादकम्, समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षो विमर्शः संशय इयदस्य विशेषलक्षणप्रतिपादकमिति, नन्वेतदेव सूत्रं सामान्यलक्षणार्थमियदेव चेदमन्यूनानतिरिक्तं विशेषलक्षणार्थमिति कथमेतत् ? उच्यते विशेषस्मरणकारणभूत साधारणधर्मग्रहणाद्विशेषात्र हरणाद्विशेषस्मृतेश्च संशयो भवतीति प्रत्यात्मवेदनीयं तावदेतत्, तत्र विशेषापेक्ष इत्यनेन पदेन विशेषस्मरणमुपदिष्टमुपलब्ध्यनुपलब्ध्यव्यवस्थापदेन च विशेषाग्रहणमितीयता च द्वयोरपि समानविशेषसामान्यलक्षणयोः ( संग्रह : ? ) समानशब्दस्त्वाक्षिप्तसामान्यवचनः सत्सामान्यवचनमाह अनुगतसामान्यव - चनस्तु विशेषलक्षणमिति, कथं पुनरयमेवाक्षिप्तसामान्यवचनः कथं वाऽनुगतसामान्यवचन इति ? उच्यते संशयोत्पत्यैव सामानधर्ममात्रमाक्षिप्यते यद्गृह्यमाणं विशेषस्मरणबीजसंस्कारोद्बोधनिमित्ततां प्रतिपद्यते तद्व्यतिरेकेण संशयानुत्पादात् । तथा हि-विरुद्धविशेषावमर्श स्वभावस्तावत्संशयः, न च विरुद्धविशेषाणां पुरोsaस्थिते धर्मिणि सन्निहितानामवमर्शनं विरुद्धतयैवैकत्र सन्निधानाभावादतः स्मृत्युपारूढानामवमर्शनं स्मृतिश्च नाकस्मादुद्भवतीति यत्सहचरितानां तेषां विशेषाणां पूर्व पर्यायेण ग्रहणं वृत्तं तद्दर्शनसंस्कारप्रचा धद्वारेण स्मरणकारणमवश्यमेवाश्रयणीयम्, तचानुगतं वा भवतु व्यावृत्तं वि
SR No.002361
Book TitleNyayamanjari
Original Sutra AuthorN/A
AuthorJayant Bhatt, Suryanarayan Sharma
PublisherChaukhamba Sanskrit Series Office
Publication Year1936
Total Pages656
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy