________________
अपवर्गनिरूपणम् ।
स एष बुद्धिशून्यानां शून्यवादपरिग्रहः । प्रतारणपराणां वा न तु तत्त्वार्थदर्शिनाम् ।। तस्मात्परीक्ष्यमाणोऽयं शब्दाद्यद्वैतपक्षवत् । विज्ञानाद्वैतपक्षोऽपि गन्धर्वनगरायते ।।
अपवर्गनिरूपणोपसंहारः । तदेवमद्वैतडशा न दृश्यते जनस्य निःश्रेयससम्पदागमः। अतो यथोक्तात्मसतत्स्वचिन्तया कृती व्यवस्येदपवर्गसिद्धये ।। सांख्यैर्यस्त्वपवर्गसाधनविधायुक्तः प्रकृत्यात्मनोरन्यत्वाधिगमोऽभ्युपाय इति स प्रागेव निर्वासितः । अज्ञा शक्तिमती विकारबहुला बध्नात्यकिचित्करं भूयो न प्रकृतिः पुमांसमिति वा कस्तां नियन्तुं क्षमः ।। पुंसा न किचिदपि बन्धनिदानभूतमत्यल्पमात्रमपि कर्म कृतं कदाचित् । मथ्नाति तं प्रकृतिरेव निरङ्कुशेषा मत्ता करेणुरिव पद्मवनानि भूयः ।। ' कचनिलुञ्चनदिक्पटधारणक्षितिपराक्रमणक्रमपूर्वकम् । क्षपणकास्त्वपवर्गमुशन्त्यमी अतितरां परमार्थविदस्तु ते॥ लोम्नां नित्यमसम्भवात् खलतयो मोक्षं क्षणात्प्राप्नुयुस्संसारोपरमो दिगम्बरतया सद्यस्तिरश्चां भवेत् । मुक्ताः स्युगिरिशृङ्गयायिन इमे शश्वत्तदारोहणा. जन्तूनामपवर्गवम निकटं केनेदृशं दर्शितम् ।। तस्मादात्मज्ञानं सन्तो मोक्षप्राप्ती हेतुं प्राहुः । तीर्थे तीर्थ तच्चाचायस्तैस्तैरुक्तं संज्ञाभेदैः ॥ यदपीह केचिदविकल्पमीश्वरप्रणिधानमाहुरपवर्गसाधनम् । इदमात्मदर्शनमवादि तैरपि प्रथितो हि पुरुषविशेष ईश्वरः ॥ .. दृष्टा बाह्यान्तराणां गतिरियमियती नापवर्गस्य माग स्प्रष्टुं द्रष्टुं समर्थास्त इति चिरमिह श्वभ्र एव भ्रमन्ति । नेदीयानेष तस्माद्भवमरुपतितैरक्षपादोपदिष्टः पन्थाः क्षमाय मोक्षाधिगमसमुचितः क्षिप्रमालम्बनीयः ।।
इति प्रमेयप्रकरणम् । इति भट्टजयन्त कृतौ न्यायमञ्जर्या नवममाह्निकम् ।