________________
न्यायमअयम् बाह्यार्थसाधनम् ।
तस्मात्प्रत्यक्षत एवावयववृत्तेरवयविन उपलब्धेर्न तद्वृत्तौ विकल्पानाभवसरः, स्रक्सूत्रादिवृत्तिरपि तथा दर्शनादभ्युपगता, तदियमवयविवृत्तिरपी दृशी दृश्यमाना किमिति निन्हूयते, न चावयविग्राहिणः प्रत्यक्षस्य कश्चिदपबादः समस्ति ।
११६
अदुष्टकरणोद्भूतमनाविर्भूतबाधकम् ।
असन्दिग्धं च विज्ञानं कथं मिथ्येति कथ्यते ॥
,
न च सेनावनवदवयविग्रहणमभिधातुमुचितम् श्रबाधितत्वात्सेनादौ च बाधकसम्भवात्, अपि च गजवाजिपदातिपीलुपलाश शिशपादिदर्शनस्य तन्त्र घटमानत्वात्तत्समवाये सेनावनादिप्रतीतिरुत्पद्येतापि इह तु कि समुदा यविषयः पटप्रत्यय इति चिन्त्यम्, तन्तुसमुदायालम्बन इति चेत्, तन्तुप्रत्यय इदानीं किमालम्बनः सो ऽपि स्वावयवालम्बन इत्येवमवयवावयवनिरूपणे परमाणवः पत्यश्वशमीशिशपादिस्थानीया वक्तव्यास्तेषां च तद्वद्ग्रहणमनुपपन्नमतीन्द्रियत्वादिति न तदालम्बनोऽवयविप्रत्ययः तस्मादवयवी प्रत्यक्षग्राह्योऽस्तीति सिद्धम् । परमाणडवो ऽपि कार्यानुमानपरिनिश्चित नित्यनिरवयवस्वरूपाः सन्तीति पूर्वमेव समर्थितम्, अतो न षट्कयोगादिना सावयवत्वमेषामुपपादयितुं पार्यते, मूर्तत्वमप्यनित्यतायामप्रयोजकमिति दर्शयिष्यतेऽतः प्रमेयपर्यालोचनवर्त्मनाऽपि शून्यवादसमर्थनं न सुशकम्, प्रमेयविचारो ऽपि निष्प्रमाणवृत्तमेव निरूप्यते, ततश्च प्रमाणचर्चातो बिभ्यद्भिः पलाय्य या प्रमेयकथावीथी तथागतैरवलम्बिता तस्यामपि संव भीषणमुखी प्रमाणचचैवोपनता ।
5
·
सर्वतो विपदां मार्गमादेशयितुमुद्यते । विधौ विधुरता याते प्रपलाग्य क्व गम्यते ॥ तस्मात्प्रमाणतोऽशक्ये शक्ये वा वस्तुनिर्णये । एवम्प्रायमयुक्तं यत्कुशकाशावलम्बनम् ॥ तेन निष्फलमुत्सृज्य शून्यवादकव्रतम् । वाह्येनैवार्थजातेन व्यवहारो विधीयताम् ॥ अथास्थाशैथिल्यजननाय सर्वे शून्यं क्षणिकं सर्वे निरात्मकमित्युपदिश्यते, तर्हि किमनेन मृषोद्येन, सत्यध्यात्मनि सत्स्वपि स्थिरेषु पदार्थेषु विषयदोषदर्शनद्वारेण भवत्येव विवेकवतां वैराग्यमिति तदुपजननाय शून्यवादादिवर्णनं वक्रः पन्थाः, प्रत्युत प्राज्ञो मुमुक्षः क्षणिकनैरात्म्य शून्यवादिवचनं युक्तिबाधितमवबुध्यमानो वञ्चनामयमिव तदुपदेशमाशङ्कते ।