________________
अपवर्गनिरूपणम् । तेप्येवं वदन्तः प्राक्तनेभ्योऽपि भिक्षभ्यः कृपणतरा इव लक्ष्यन्ते, अपूर्व एष तर्कमार्गो यत्र प्रतीतिमुत्सृज्य तर्जनीविस्फोटनेन वस्तुव्यवस्थाः क्रियन्ते ।
दृढेन चेत्प्रमाणेन बाधादिरहितात्मना । गृहीत एवावयवी किमेभिबोलवलगितैः ॥ अथ नास्ति प्रमाणेन केनचित्तदुपग्रहः।
एतदेवोच्यतां वृत्तिविकल्पैः किं प्रयोजनम् ॥ न च शक्नुमः पदे पदे वयमेभिरभिनवमल्पमपि किंचिदपश्यद्भिस्तदेव पुनः पुनः प्रकुर्वद्भिः शाक्यनर्तकैः सह कलहमतिमात्रं कर्तुम् , अविकल्पं प्रत्यक्षं प्रमाणमिति साधितम्, निर्विकल्पकेनापि शब्दोल्लेखमात्ररहितमविकल्पकग्राह्यमेव वस्तु गृह्यते इति दर्शितम, एकाकारविषयव्यतिरेकेण च तद्बु. हेरेककार्यस्वैकदेशव्यवस्थानाद्यन्यथासिद्धिनिबन्धनमपि न किंचिद्वक्तुं श. क्यते इत्युपवणितम् , कचिद्वा पृतनादौ बाधकोपनिपातादेवावगतिमिथ्यास्वान्न सर्वत्र मिथ्यात्वकल्पना युक्तत्यप्युक्तम् , किं वा तदस्ति यत्समान्यसमर्थनावसरे न कथितम् , तस्मात्तयैव नीत्याऽवयव्यपि सिद्ध एव तग्राहिणः प्रत्यक्षस्य निरपवादत्वात् । ___ यत्तु देशभेदेनाग्रहणात्तदग्रहे तबुद्ध्यभावादिति, तत्रावयवाश्रितत्वमेव निमित्तं नासत्त्वम् ।
देशभेदेन हि ज्ञानं तत्त्वे तस्य कथं भवेत् । न हि कश्चित्स्वतन्त्रोऽसावपि त्ववयवाश्रितः ।। यावतां ग्रहणे चास्मिन् बुद्धिर्भवति तावताम् । अपेक्षतेऽसौ ग्रहणं न सर्वेषामिति स्थितिः ।। विविच्यमानेष्वंशेषु युक्तस्तदनुपग्रहः ।
तदावयविनाशो हि बुद्धौ विपरिवर्तते ।। अवयवविभागो ह्यवयविनो विभागहेतुस्तस्मिन् बुद्धया समुल्लिख्यमानेऽवयवविनाशोऽपि नानुल्लिखितो भवेदिति कथमवयवी तदानीं गम्यते।
वृत्तिश्चावयवेष्वस्य व्यासज्यैवेति गम्यते । न प्रत्यवयवं तस्य समाप्तिव्यक्तिजातिवत् ॥ ध्यासज्य वर्तमानोऽपि न खल्ववयवोन्तरैः ।
वर्तते तदसंवित्तेः किन्तु वर्तत एव सः॥ तथा चाहुः-'वतेत एव ब्रमः अनाश्रितस्यानुपलम्भात ।
वृत्तिरवम्विधाऽन्यत्र क दृष्टेति यदुच्यते । प्रत्यक्षदृष्ट एवार्थे दृष्टान्तान्वेषणेन किम् ।।