________________
माता
११४
न्यायमअर्याम् वासनानां तद्विनाशे नाशः स्यात् , प्रतिवासनमाश्रयभेदे तदानन्त्यमनियमश्च शतशाखः , न चालयविज्ञानं नाम किंचिदस्ति, सत्यपि तस्मिन्नशेषवासनास हस्रसमाश्रये तत्क्षणिकत्वात्सकृदेव तथाविधवासनाकुमूलज्ञानविनाश: स्यात् , पुनरुत्पादे तथाविधमेव तज्ज्ञानमुत्पद्यते न तु गवाश्वादिक्रमनियमो भवेदिति सर्वथा सङ्कटो ऽयं पन्थाः , तस्मान्मृगतृष्णैषा तपस्विनां वासनात एव लो. कयात्रासिद्धेः किं बाह्येनार्थेनेति ।
कृतमतिवाचालतयां चिरमपि निपुणैर्निरूप्यमाणो ऽतः । .. अर्थस्यैव न बुद्धः सिध्यति नीलादिराकारः ॥ एकश्च बोधः प्रमितिप्रमाणप्रमेयरूपाणि कथं बिभर्ति । भिन्नप्रमाणात्फलमभ्यधायि प्रत्यक्षचिन्तावसरे पुरस्तात् ।।
बाद्यार्थशून्यत्वनिरासः। ये तु अवते-तिष्ठतु तावत्प्रमाणमात्रं प्रमेयमेव विकल्पयन्तो न बाह्यमर्थ कं चन निरपवादं प्रतिपद्यामहे , तथा हि-न तावदयमवयवी घटादिरवकल्पते अवयवव्यतिरेकेणावयविनो ऽनुपलम्भात् , यो हि यस्माद्यतिरिक्तः स तदा धिष्ठितदेशव्यतिरिक्तदेशाधिष्ठान उपलभ्यते घटादिव पटो, न चैवमवयवेभ्यः पृथग्देशो दृश्यते , न चावयवानुपलब्धाववयवीति कथमेतेभ्यो भिद्यते, अवयवग्रहणानुपपत्तेश्च,-न हि सर्वे तदवयवाः शक्यन्ते ग्रहीतुमर्वाग्भागवर्तिन एव गृोरन्न मध्यपरभागगता इति, ( यदा?) बुद्ध्या विविनक्ति एष तन्तुरेष तन्तुरिति तदा प्राच्यादञ्चलात्प्रभृति प्रतीचीनमञ्चलं यावद्विविञ्चन्नसौ तन्तुसन्ततिमेव केवलामुपलभते न ततोऽतिरिक्तपटावयविनम् , वृत्त्यनुपपत्तेश्च,-नैकत्रा. वयवे कात्स्न्येनावयवी वर्तते , तेष्वपि कथं वर्तते अन्यैरेकदेशैस्तेष्वपि अन्यैरिति नास्त्यन्यः , असम्बद्धस्त्वेकदेशैरवयवेष्वस्तीति कथं तद्द्वा. रकैरपि सम्बध्येत , तस्मादुभय्यपि नास्य वृत्तिरवयवेवस्तीति , धारणाकर्षरणादि त्वनारब्धकार्ये काष्ठमूलककार्पासादावपि दृश्यते इत्यनेकान्तिकम् , एकाकारा तु प्रतीतिर्विकल्पमात्रम् एकदेशावस्थानादिनिमित्तमाश्रित्य करितुरगपदातिष्विव सेनेति धवखदिरपलाशादिष्विव वनमिति सञ्चितेष्ववयवेष्वेव घट इत्यादिप्रतीतिर्भविष्यतीत्येवमवयव्यवयवावयवापर्यालोचनयाऽणुसञ्चयमात्रमेवावशिष्यते नान्यत् , सञ्चयोऽपि च व्यतिरिक्ताव्यतिरिक्ततया चिन्त्यमानो नास्त्येवेत्यणव एवावशिष्यन्ते , परमाणवोऽपि 'षट्केन युगपद्यो. गात्परमाणोषडंशते'त्येवं विकल्प्यमाना विप्लवन्त एव, न च तैरतिसूक्ष्मैरेष व्यवहारोऽभिनिवर्त्यत इति, तस्माद् बाह्यस्य प्रमेयस्यैव निरूप्यमाणस्यानुपप. तेर्विज्ञानमात्रमेवेदमित्यभ्युपगमनीयम्-( इति ? )।