________________
अपवर्गनिरूपणम् । किन भक्षयितुं शक्या नारी कौलेयकेन(१) सा। कि वा न शमयत्येषा कामिनो मदनज्वरम् ॥ शवाद्वा केन रूपेण सा विशिष्येत योगिनः।
धीत्रयं तु न सर्वेषामभावात्सहकारिणः ॥ प्रतिप्राणिनियतानेकविधवासनासहकारिसापेक्षा हि तस्य ज्ञानस्यात्मलाभ इति न सर्वेषां सर्वसारूप्येण ज्ञानम् । ___ यद्येवं वासनाभेद एव विविधप्रतिभोद्भवहेतुर्भवति किमर्थकल्पनया, अयि साधो किमद्यापि न परिहरसि सुचिरं गुणितां कल्पनावाचायुक्तिं न ह्यर्थः कल्प्यतेऽपि तु प्रतिभासते एव, बहुरूपस्य तु तस्यैकतमरूपपरिच्छेदनियम किमपि वासनादि कारणं कचित्कल्प्यते कस्तावताऽर्थनिह्नवस्यावकाशः ।
यच्चेत्थं-वासनाभेद एव ज्ञानवैचित्र्यकारणमितरेतरकार्यकारणभावप्रब. न्धश्व बीजाङ्कुरवदनादिनिवासनयोः-इति, तदप्यघटमानम् , केयं वासना नाम? ज्ञानादव्यतिरिक्ता चेत्सा ऽपि स्वच्छरूपत्वान्न ज्ञानकालुष्यकारणं भवेत् ,ज्ञान. व्यतिरिक्ता चेद्वासना तद्वैचित्र्यहेतुश्च सोऽर्थ एव पर्यायान्तरेणोक्तः स्यात् ।
अपि च वासना विषयानुभवसमाहितः संस्कार इति लोके प्रसिद्धिः, सं. स्कारश्च यदनुभवघटितः तत्रैव क्वचिदवसरे स्मरणमनुभवति न पुनरसदेव वैचित्र्यमिदमीदशमावहति ।
किञ्च भिक्षुपक्षे क्षणिकत्वेन ज्ञानानां ग्राह्यग्राहकभाव इव वास्यवासकभावेऽपि निराकर्त्तव्यः , स्थायिनो हि भावास्तिलादयः स्थायिभिरेव चम्पकादिभिर्वास्यन्ते न तूत्पद्य सपद्येव नश्यद्भिः ज्ञानस्ताहंश्येव ज्ञानानीति । ।
निरन्वयविनाशाच्च न तदंशो ऽनुवर्तते ।
यतः कथंचिद्वास्येत पूर्वेण ज्ञानमुत्तरम् ॥ अपि चैकत्र देवदत्तसन्ताने वासना यतः सहस्राणि ज्ञानवैचित्र्यकारीणि भवेयुः, न हि गोवासनातो हस्तिज्ञानमुदेति ।
अनन्तत्वे ऽपि खल्वासामारम्भे नियमः कुतः । असमजसकारित्वे व्यवहारस्य विप्लवः ।। धूमज्ञानसमुत्पादे धूमवासनया कृते ।
कं तदा न जलज्ञानं जनयेज्जलवासना ॥ वासनाश्च स्वसहशवासनासन्तानारम्भहेतव एव भवेयुःन पुनरनुभवज्ञा. नमाधातुमुद्यच्छेयुः , सदृशात्सदृशोत्पत्तिरिति हि भवतां दर्शनम् ।
अपि च न निराधारा वासना आसते न च भवत्पक्षे तदाधारः कश्चन स. म्भवति भङ्गुरत्वेन ज्ञानस्य तदाश्रयत्वानुपपत्तेः , एकज्ञानाश्रितत्वे सर्वासां
(१) कौलेयकेन-शुना ।