________________
११२
न्यायमअर्याम्
महमिति, भ्रान्तिज्ञानेषु तदर्थसन्निधानाद् भ्रान्तत्वमस्तु नात्मतत्व ग्रहणमिति यच्चाद्यते, तदन्तर्ज्ञेयरूपं हि बहिर्वदवभासते इति सेयं विपरीतख्यातिरेवाङ्गीकृता स्यात्, तद्वरमेव तपस्विनी साधीयसी ।
अथ कथ्यते ग्राहकात्सत्यं विच्छिन्नं ग्राह्यं तत्त्वज्ञानरूपमेवेति, तत्र विच्छिनमिति प्रियमावेदितं ज्ञानत्वे तु तस्य का युक्तिः, न च ज्ञानयोर्युगपदुत्पन्नयोaf क्रमभाविनेार्वा ग्राहकभाव उपपद्यते यौगपद्ये सव्येतर गोविषाणवद् प्रा. ह्यग्राहक नियमाभावात् क्रमपक्षे ऽपि पूर्वमुत्तरस्य ग्राहकात्तदुत्पत्तिस्तद्ग्रहणकालप्रतीक्षणात् क्षणिकतां जह्यात्, उत्तरमपि यदि पूर्वस्य ग्राहक तथा ऽपि सैव वार्ता, तावत्कालस्थितिमन्तरेण तद्ग्राह्यताऽनुपपत्तेः, न च ज्ञानत्वं नाम सामान्यं ग्राहमाह कयोरनुगतं गोत्वमिव शाबलेयादौ भाति, अतो विच्छिन्नश्चेदू ग्राहुकोद्ग्राह्यः सो ऽन्य एव भवेदिति न ज्ञानस्यायमाकारः
"
यत्तु संसर्गधर्म आकारो न भवति इति भाषितं, तद्युक्तमेव, - न कुण्डदधिवत्कश्चित्संसगों ऽस्त्यर्थबोधयोः । तत्कृताकारवत्ता वा प्रागनाकारयोस्तयोः ॥
तदेवं शाक्यक्तयुक्तिकौशलदौर्बल्यात्सर्वत्र विच्छेदप्रतिभासात्खच्छात्मनश्च ज्ञानस्य स्वतो विचित्रत्वानुपपत्तेः अर्थस्यैवायमाकार इति सिद्धम् ।
यत्त्वाकारपक्षे चेदितमेकत्रार्थे नक्षत्रं तारका तिष्य इति परस्परविरुद्धाकासमावेशो न युक्त इति, तत्रोच्यते - अनुपपन्नमिति नः क्व संप्रत्ययो यन्न प्रमानावगतं विरुद्धमपि तद् बुद्धयामहे यदेकत्र निविशमानं न पश्यामः, तदिह बाधितेन ज्ञानेन विस्पष्टमाकारत्रयमेकत्र गृह्यते तत्कथमनुपपन्नं स्याद्विरुद्धमिति ।
अथैकं सम्यक्प्रमाणपरिनिश्चित रूपमितरत्काल्पनिक मिति प्रतीयतेत देवमस्तु को दाष: दृष्टश्च चित्रादावने कबलसमावेशः, न चैकत्र विरोधमविरोधं वा दृष्ट्वा सर्वत्र तत्कल्पनमुचितमबाधितावगतिनिबन्धना हि वस्तुस्थित भवन्ति न कल्पनानिर्मिताः ।
अपि वा वस्तुताद्रूप्य सदसत्तानपेक्षया ।
शब्द प्रयोगसाधुत्वमन्वाख्यायेत केवलम् ||
.
दाय इति नैकस्याः स्त्रीव्यक्तेः पुंस्त्वं बहुत्वं वा विद्यते शब्दस्त्वेष तत्र प्रयुज्यमानः साधुर्भवति ।
नाथसंस्पर्शिता चाय तावतां व्यवतिष्ठते ।
सौ तदात्मकं वस्तु तथा शक्नोति भाषितम् ॥ परिव्राट्प्रभृतीनां च कुणपादिप्रतीतयः । अर्थस्यानेकशक्तित्वान्नावहुन्त्यर्थ शून्यताम् ॥