________________
अपवनिरूपणम् । चिनिरालम्बनता दृश्यते भास्वररूपसादृश्येन हि विषयदोषेण शुक्तिकारज. • तमिति परिस्फुरति, मरुस्थलपतितोत्फलितं सावित्रं तेजस्तरलतरङ्गसारूप्येण पय इति चकास्ति , इन्द्रियदोषादपि पित्तोपहतरसनस्य तिक्ततया शर्कराऽवभासते, तिमिरसीमन्तितनयनवृत्तेश्चन्द्रमण्डलमेकमपि द्विधा प्रतिभाति तिमिरकणनिकरविवरविरचितप्रसृताश्च नयनरश्मयः सूर्याशुसंवलिताः सन्तः सूक्ष्मतया केशकूर्चकाकाराः प्रतिभान्तीति ।
अन्तःकरणदोषेण विभ्रमो यस्तु जायते । असत्यपि महेलादौ पुष्पेषु मुषितात्मनाम् ।। सो ऽपि कश्चिद्विषयदोषहा भवति कुत्र चित् । कोमलानिलकल्लोलवेल्लिते बालपल्लवे ॥ अनपेक्षिततत्तुल्यपदार्थस्यैव या पुनः ।
मानसी मन्मथोन्मादमहिम्ना मानिनीमतिः ।। तस्यामपि रोगादिवासनाबलेोपप्लवमानसंवृत्याधुपस्थापितदेशकालव्यवहि. तोपलब्धपूर्वपुरन्ध्रिरूपः समुल्लेखा न त्वेकान्तासतः खरविषाणादेरिव, प्रतिभानिद्रादिमनोदोषजन्मनि स्वप्ने ऽपि दृष्टपूर्वस्यैव तस्याकारस्योल्लेखः ।
ज्वलज्जलगलद्वह्निद्रवदद्रयादिदर्शने । रूपमन्यस्थमन्यत्र वेत्ति न त्वसदेव तत् ।। तदेवं भ्रान्तबोधेषु नास्त्यत्यन्तासतां प्रथा।
देशकालान्यथात्वं तु केवलं भाति वस्तुनः ॥ ननु तत्रासतो ऽर्थस्य प्रतिभासे देशान्तरादिषु सत्त्वं कोपयुज्यते देशान्तरे दि सन्नसन्वा ? तत्र तावन्नास्त्येव सोर्थः , न च द्वयोरसत्त्वयोः कश्चिद्विशेषः दे. शकालावपि किं सन्तावसन्तौ वा प्रतिभासेते इति विकल्पनायां तथा तयोरपि. तुल्यो दोषः । - मैवम् भवतो ऽप्यसत्ख्यातिवादिनः किं सर्वत्रैव तदर्थासत्त्वं सम्मतमुत तद्देश एघ, तत्रासन्निधानमात्रेण तावत्क इव तव स्वार्थः, सर्वत्रासतस्त्ववभासे कुतस्त्य एष नियमो यदसत्त्वाविशेषे ऽपि रजतादि संप्रति न खरविषाणादीति, अयं च द्वयोरसत्त्वयाविशेषः देशान्तरादिषु सतो ऽर्थस्य स्मरणाधुपारोहण प्र. तिभासमानता दृश्यते न त्वेकान्तासत इति, एवं देशकालयोरपि सदसद्विकल्प. चोयं परिहर्तव्यम् , अतश्च किं चिदपि नात्यन्तासदर्थप्राहि ज्ञानमस्तीति किं दृष्टान्तबलेन सर्वत्रार्थशून्यता कल्प्येत तस्मान्नासख्यातिः ।।
__ आत्मख्यातिनिरासः । आत्मख्यातेस्तु निराकरणाय सेो ऽयमियान्कलिवर्तते, तत्र च बहुशः कथितं प्राहकाद्विच्छिन्नमेव ग्राह्यमवभासते नीलमिदमिति न तु तदभेदेन नील.