________________
न्यायमअर्याम्
यदा हि देवदत्तार्थी कश्चिद् व्रजति तद्गृहम् । तत्रासन्निहितं चैनं गत्वा ऽपि न स पश्यति ।। क्षणान्तरे स आयान्तं देवदत्तं निरीक्षते।
तत्र तत्सदसत्त्वेन तथात्वं वेत्ति तद्धियः ।। ' अनागते देवदत्ते न देवदत्तज्ञानमुदपादि तस्मिन्नागते तदुत्पन्नमिति तद्भा. वभावित्वात्तज्जन्यं तदवसीयते, इत्थं च तज्जन्यत्वेन तत्र नियमसिद्धेरलमाकारकल्पनया, एतेन पुरुषप्रवृत्तिरपि नियतविषया व्याख्याता, साधकतमत्वं तु सामग्रयाः प्रमाणसामान्यलक्षणे निर्णीतमेव ।
यस्तु लौकिकव्यपदेश उदाहृतः, सो ऽपि व्यभिचरति नीलोऽयं यतस्तद्विषयं ज्ञानमुत्पन्नमित्यपि न तद् व्यपदिशन्ति लौकिकाः, तस्मा दर्थे सत्यपि साकारं ज्ञानमेषितव्यम्' इति यदुक्तं तदनुपपन्नम् ।। ___ यदप्यवणि सहोपलम्भनियमादभेदो नीलतद्धियोरिति, तदपि बालभाषितमिब नः प्रतिभाति अभेदे सहार्थानुपपत्तः, अथैकोपलम्भनियमादिति हेत्वों विवक्षितः, तदयमसिद्धो हेतुर्नीलादिग्राह्यग्रहणसमये तद्ग्राहकानुपलम्भात्, ग्राहकाकारानुवेधरहिततद्विच्छिन्नो बाह्यग्राह्यमात्रप्रतिभास एवायं नीलमिद. मित्यादि दर्शितः, कचिच्च ग्राह्याकारानुपश्लिष्टकेवलग्राहकावमर्शनमपि दृश्यते न स्मरामि मया कोऽपि गृहीतोऽर्थस्तदेति होति, तदेवमितरेतरविभक्तज्ञाना.
कारसंवेदनात्कथमेकोपलम्भनियमादभेदो नीलतद्धियोरित्युच्यते, नीलतद्धि. योरिति च वदता भवताऽप्येष भेद एव निर्दिश्यते, परमतानुवादमात्रमेतदिति चेन्नाभेदे पृथङ निर्देशस्याप्यघटमानत्वात् , तस्मादपि न ज्ञानस्यायमाकारः। ___ यदप्युक्तम् 'असत्यपि बाह्ये ऽर्थे स्वप्नगन्धर्वनगरमायादिषु ज्ञानस्याकारवत्ता दृश्यते इति तस्यैवायमाकारो युक्त' इति, तदपि दुराशामात्रं-सर्वत्र ज्ञानाद्विच्छिन्नस्य ग्राह्याकारस्य प्रतिभासनात् , तथा हि-भ्रमज्ञानेषु चतुष्टयी गतिरात्मख्यातिरसतख्यातिरख्यातिविपरीतख्यातिर्वा, तत्र रजतमिदमिति सामानाधिकर. ण्येनैकार्थप्रतिभासात्तन्मते च संवित्तेरपरोक्षत्वाद्रजताधिगमाभिधानेन तदर्थनस्तत्र प्रवृत्तेर्बाधकप्रत्ययस्य तथाविधबोधनिषेधपरत्वेन प्रादुर्भावान्न तावदख्यातिरिति प्रायेव प्रसाधितमेतत्
असत्ख्यातिनिरासः । असख्यातिरपि नास्ति एकान्तासत: खपुष्पादेः प्रतिभासायोगात् , देश. कालव्यवहितानुभूतपूर्वपदार्थविषय एव भ्रान्तो ऽपि प्रत्ययः प्राणभृतां भवति न स्वत्यन्तासदर्थविषयः , तथा हि द्विविधा भ्रान्तिाधेन्द्रियजा मानसी च, तत्र बाह्यन्द्रियजे भ्रमज्ञान विषयदोषादिन्द्रियदोषाद्वा समुत्पद्यमाने न के