________________
अपवर्गनिरूपणम् । ह्यते नवा कदा चिदिति, तन्न साम्प्रतम् , तदानीं तद्ग्रहणसामग्र्यभावात् ,
न चाविबन्धमात्रेण प्रतीतिरवगम्यते ।
उपायविरहेणापि तदा ज्ञानस्य न ग्रहः ।। न च जैमिनीया इव वयं ज्ञानं नित्यपरोक्षमाचक्ष्महे ज्ञातो मयाऽयमर्थ इति कालान्तरे तद्विशिष्टार्थग्रहणदर्शनात् ।
शुक्लः पट इति ज्ञाने यथासौ भाति तद्गुणः । तथा ज्ञातो ऽर्थ इत्यत्र भात्यर्थो धीविशेषणः ।। न विशेष्ये च संवित्तिरगृहीतविशेषणा ।
नानुसायधियं वेत्थं प्रतीयेत भ्रमाग्रहात् ।। न च नित्यपरोक्षा बुद्धिरनुमातुमपि शक्यते इति च विचारितमेव, तदलमनया कथया किमिति शाक्यमुत्सृज्य श्रोत्रियमिदानीमभियुद्धमहे ।
अतश्च यदुक्तं ज्ञानपृष्ठावमर्शदर्शनाज्ञानग्रहणपूर्वकमर्थग्रहणमिति तन्न सार्वत्रिकमपि तु क चिदेव ज्ञाननिष्ठार्थसंवेदनात्तथा ऽभ्युपगम्यते, तस्मादर्थग्रहणात्पूर्व ज्ञानस्यानवमासानिराकारत्वावसायविरहाच्च ज्ञानस्यैवायमाकार इति कदाशाप्रलपितमेतदरुणाम्बराणाम् । ___ यत्पुनरभ्यधायि 'ज्ञानाकारपक्षे कल्पना ऽल्पीयसी'ति, तत्र यथोक्तनीत्या प्रत्यक्षगम्ये बाह्ये ग्राह्येऽर्थाकारे कल्पनोक्तिः कीदृशी? कीदृशं वा तदल्पत्वं महा त्वमित्युभयसिद्धमपि यदवादि ज्ञानस्य, तत्र यदि प्रमाणायत्ता वस्तुस्थितिः अर्थों ऽप्यभयसिद्ध एव, इच्छाद्वेषनिबन्धनायां तु वस्तुस्थितौ ज्ञानमपि कथमुभयसिद्धं स्यादिति यत्किंचिदेतत् । ___ यत्पुनरिदमभिहितमभ्युपगम्यापि बाह्यमर्थमप्रत्याख्येयः प्रतिकर्मव्यवस्थासि. द्धये ज्ञानस्याकारयोग इति, तदपि न साम्प्रतम् , प्रतिकर्मव्यवस्थायाः प्रकारान्तरेणाप्युपपत्तेः।
यदप्यनेकसन्निधाने नीलज्ञानमुपजायते यद्यपि बोधरूपत्वमशेषसाधारणं तथा ऽपि नीलेनैव कर्मकारकेण तदुपजनितमिति नीलनिष्ठमेवावतिष्ठते, चक्षुरादिना ऽपि तज्जनितमिति चेत्सत्यं जनितं न तु कर्मभूतेन तदुत्पाद्यते इति तदेकविषय. मेव भवति, कुत एष नियम इति चेद्वस्तुस्वभावत एव, आकारपक्षे ऽपि समानो ऽयं पर्यनुयोगः।
यदच्यते किमिति नीलमेव कर्म कारक किमिति वा कर्मविषयमेव ज्ञानमिति, तत्र वस्तुस्वभावैरुत्तरं वाच्यम , आकारमपि च ज्ञानमुपाददानमर्थस्यैव कथमुपाददीत न कारकान्तरस्येत्यत्रापि वस्तुस्वभाव एव शरणमिति, अर्थस्य च शानजनकत्वमन्वयव्यतिरेकाभ्यामवगम्यते ।