________________
$00
न्यायमागम्
काशो ज्ञानं ग्राहकं तदुत्पत्तिमात्रेण च रूपं प्रकाशितं भवतीति न प्रकाशो ग्रहमपेक्षते,
ननूक्तमत्र नानुपलब्धायां बुद्धावर्थः प्रकाशते ऽ' प्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यती 'ति तदयुक्तम्, अप्रत्यक्षोपलम्भस्य च प्रत्युतार्थदृष्टिः सिचति, उपलम्भोत्पाद एवार्थदृष्टिर्न पुनरुपलम्भदृष्टिः ।
ननुपलब्धेरप्रहरणे तदुत्पाद उत्पन्नोपलम्भस्याप्यर्थः प्रत्यक्षः स्यादिति सर्व सर्वज्ञत्वप्रसङ्गः, तदिदमतिसुभाषितम्, अर्थ प्रकाशात्मैव खलुपलम्भः स कथमनुत्प नादुत्पन्नेन विशेष्यते, तस्मादर्थ प्रत्यक्षीकरणात्मकत्वाज्ज्ञानस्य उत्पाद एवार्थप्रत्यक्षता न तद्ग्रहणमित्यगृहीतमेव ज्ञानमर्थ प्रकाशकमिति युक्तम् । यत्वरूपत्वाज्ज्ञानस्य पूर्वं प्रहणमुच्यते तच्चक्षुरादिभिरनैकान्तिकमित्युक्तम् । गृहीतं यदि च ज्ञानं भवेदर्थप्रकाशकम् । धूमवद्दीपवच्चेति वक्तव्यं यदि धूमवत् ॥ भवेदर्थानुमेयत्वं यत्त्रयैव च दूषितम् ।
कारद्वय संवित्तिविरहान्न च दीपवत् ॥ घटं दीपं च पश्यामीत्यस्ति द्वितयवेदनम् । न तु ज्ञानेन विज्ञेयं जानामीति द्वयग्रहः ॥
यदपि प्रकाशत्वाज्ज्ञानस्य दीपवत्पूर्वप्रहरणमुक्तम्, तदपि व्याख्येयम्, प्रकाशस्वादिति कोऽर्थः ? प्रकाशयतीति प्रकाशत्वमिति, तचक्षुरादिभिरनैकान्तिकमुक्तमेव, अथ प्रकाशनं प्रकाश:, तर्हि प्रकाशत्वादित्यसिद्धो हेतु:, न हार्थग्रहकाले बुद्धः प्रकाशनमस्ति, अथ प्रकाशशब्दो बोधपर्याय एव प्रकाशत्वाद बोधरूपत्वादित्यर्थः, तदा साधनविकलो दृष्टान्तः प्रदीपस्य बोधरूपत्वाभावात्, श्रतश्च स्वसंवेदनपक्षो न युक्तियुक्तः स्वप्रकाशस्य कस्य चिदप्यष्टत्वात्
"
"
ननु ज्ञानशब्ददीपास्त्रयः प्रकाशाः स्वपरप्रकाशा इत्याहु:, तदयुक्तं शब्ददीपयोः स्वग्रहणेऽर्थ प्रकाशने च सामग्य्यन्तरसव्यपेक्षत्वात्, शब्दोऽर्थप्रकाशने समयग्रहणमपेक्षते, स्वप्रकाशने च श्रोत्रादि दोपो ऽपि चतुराद्यपेक्ष एव गृप - ते प्राहयति चार्थम्, इयांस्तु विशेषो - घटादिग्रहणे श्रालेाकसापेक्षं चक्षुः प्रवर्तते श्रलोकग्रहणे तु निरपेक्षमिति नैतावता दीपस्य स्वप्रकाशता स्यात् इत्थं च मार्जारादिनक्तंचरचक्षुरपेक्षया सर्व एव घटादयः स्वप्रकाशाः स्युः, ज्ञानस्य तु पर प्रकाशत्वमेव दृश्यते न स्वप्रकाशत्वमर्थप्रकाशकाले तदप्रकाशस्य दर्शितत्वात् । 6. मुचैव तस्माद्गणितास्त एते त्रयः प्रकाशाः स्वपर प्रकाशाः, आत्मप्रत्यक्षयादिनां त्ववस्थाभेदेन ग्राह्यग्राहकांशयोर्भेदो विद्यते एवेति सर्वथा न स्वप्रकाशं विज्ञानम् ।
यद्यभिहितमुत्पद्यमानमेव ज्ञानमनपेक्षत्वादप्रतिबन्धत्वाच्च तदैव गृ